पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
अष्टमः सर्गः ।


इति कथितवती सखीमुखात् सा
 मदनशरैरिव खण्डितैर्वचोभिः ।
यदि गुरुरनुमन्यते न दोष-
 स्तदिदमुषर्बुधसाक्षिकं विधेयम् ॥ २१ ॥

अथ नियमपुरःसरं पुरोधाः
 क्षितिपतिना नियमार्थिना नियुक्तः ।
कृतभुवि विधिना निधाय वह्निं
 परिकरितक्रममाहुतीर्जुहाव ॥ २२ ॥

तदनु परिणता नरेन्द्रनार्यः
 कनकनवाम्बरहारगन्धमाल्यैः ।
अभिनवधनयौवनां कुमारीं
 किसलयितामिव चक्रुरङ्गकेषु ॥ २३ ॥

नखरुचिनव केसराभिरामं
 परिगतकण्टकलो[१]लबाहुनालम् ।
कमलमिव करेण पाणिमस्याः
 श्रमजलशीतलमग्रहीन्नरेन्द्रः ॥ २४ ॥

हुतभुजि विरराज लाजदृष्टि-
 स्तरलवधूकरपल्लवो[२]पकीर्णा ।
सपदि दिनमुखश्रिया विभुक्ता
 दिनकरतेजसि तारकावलीव ॥ २५ ॥

अथ विजयसमृद्धिशंसिनीभि-
 र्नरपतिमृग्भिरवर्धयन् द्वि[३]जेन्द्राः ।


  1. 'बाहुलोलना',
  2. 'वावकी,
  3. 'मुनीन्द्राः' ग. पाठः.