पृष्ठम्:भरतचरितम् (श्रीकृष्णकविप्रणीतम्).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
भरत चरिते


निजविभवविवृद्धमम्बुराशिं
 सलिलधरा इव वृष्टिभिर्नवाभिः ॥ २६ ॥

तवनु दयितया तथा सहासौ
 पटभवनेषु विशुद्धसंस्तरेषु ।
हर इव विजहार हैमवत्या
 रजतमहीधरगहरोदरेषु ॥ २७ ॥

रविरिव नलिनीं निसर्गमुग्धां
 मृदुलतरेण करेण मानवेन्द्रः ।
मुकुलितकमलेक्षणां नवोढा-
 मनुसरणक्रमकौशलेन भेजे ॥ २८ ॥

अलिकमलयजानुलेपधूलिः
 पतति तवाक्षणि किं न वारयिष्ये ।
इति स मुखसरोजमुन्नमय्य
 क्षणविकचेक्षणमाचुचुम्ब तस्याः ॥ २९ ॥

मदनशर विभिन्नमेतदङ्गं
 सुमुखि ! कुचोष्मणि तापयामि किं ते ।
इति घनममुना बिमर्दिताङ्गी
 पुलकचयेन तथेति सा शशंस ॥ ३० ॥

अयमलसदृशः पपौ मनोज्ञा-
 मधरसुधामिव यौवनाम्बुधाराम् ।
ह्रीयमिव शिथिलीचकार नीवीं
 हृदयमिवांशुकमाचकर्ष तस्याः ॥ ३१ ॥