पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रतिज्ञायौगन्धरायणे सव्याख्याने
युगन्धरायणः- महान् खट्वध्वा गन्तव्यः ।
सालक-(क) महत्तरेण सिणेहेण अयं उवचिट्ठामि ।
यौगन्धरायणः- हन्त यास्यति बलवान्, यस्य सौहार्दम् |कुतः,
स्निग्धेष्वासज्यं कर्म यद् दुष्करं स्याद्
यो वा विज्ञाठ सस्कृतानां गुणानाम् ।

(क) महत्तरेण स्नेहेनार्यमुपतिष्ठे ।

कार्यंदेशं प्रति गन्तव्यस्याध्वनो महत्तामजानतैव किमनेनात्मनः सजवम्
च्यते उत जानतेति सन्देहात् तां ज्ञापयति--मह नित्यादि । महन् खलु न व
स्पः । अतस्तमातिश्रमलङ्कनीयं कार्यकाळहपनेन लङ्घयितुमात्मा क्षमो न वेति वि
मृश्य कार्यमङ्गीकुर्वंतिं भावः ।
महत्तरेणेति । महत्तरेण अतिमहता । स्नेहेन होर्देन समसुखदुःखस्वप्रयो
जिकया चित्तवृत्या, न तु भूरिश्रुतिभेन न वा गन्तव्यमार्गारूपत्वभ्रमेण । आर्ये
भवन्तम् । उपतिष्ठे वे अर्थात् प्रकृतभवाप्रियकार्याङ्गीकारेण। अयमभिप्रायः—
यद्यपि महान् गन्तव्योऽध्वा, तथापि तदपेक्षया महत्तरः त्वाद्विषयः स्नेहस्तद्दघन
भाविनं मे महाश्रमं साहयिष्यतीति बुद्धिपूर्वमेव मया कार्यमङ्गीकृतमिति ।।
हन्तेति । यस्य नियोज्यस्य पुरुषस्य । सौहार्द नेहः नियोक्तृविषयः ।
अस्तीति शेषः । बलवान् कायशक्तियुक्तः । स:, यत्तदोर्नित्यसम्बन्धात् तस्पदा
पः। यास्यति लङ्घयिष्यति । अर्थान्महान्तमप्यध्वानम् । अतः स्निग्धे श्रमसहन
शक्तियुक्ते च वयि मस्कार्यं निश्शकं निसृष्टमित्यभिप्रायः । हन्तेति शकापगमज
नितं सन्तोषं सूचयति । अत्र सौहार्दमित्यस्य स्थाने ‘सहार्थ’ इति कश्चित् पठ्यते ।
तदा सहशब्दस्य तुल्यार्थतया तुल्यं प्रयोजनमित्यर्थः । तच्च स्वामिकार्यामिन्नकार्यं
कलरूपं स्नेह एव पर्यवस्यति ॥
नियोज्यनियोक्तृविषयस्वेहापेक्षायां कारणमाकङ्कति-कुत इति ।
स्निग्धेष्विति । यत् कर्म, दुष्करं श्रमसाध्यं स्यात्, तत् कर्म , तदित्या
क्षेपलभ्यम्। स्निग्धेषु स्नेहवसु नियोज्येषु । आसज्यम् आसक्तुं निर्वाह्यतया
र्पयितुं योग्यम् । स्नेहवान् हि मियेयुः कार्यमगणितश्रमः स्वकार्यनिर्विषमनुति
अँतीत्यवश्यापेक्ष्यो नियोज्यस्य स्नेह इति भावः । स्निग्धसमानयोगक्षेमं दुष्करस्यं
कर्मण आसजनस्थानमन्यदपि प्रसङ्गादाह--यः, सकृतानां पूजितानां । गुणा