- पुरुषं प्रैषयत्येष यथा यौगन्धरायणः ॥ २ ॥
(निष्क्रान्तौ ।)
स्थापना।
- (ततः प्रविशति यौगन्धरायणः सालकेन सह ।)
- यौगन्धरायणः-सालक ! सज्जस्त्वम् ।
- सालकः–(क) अय्य ! अहइं।
- (क) आर्य ! अथकिम् ।
येन नेपथ्ये व्याहृतं, तं पात्रविशेषं रङ्गप्रवेशाभिमुखमात्मोपमानीकरणभङ्गयेपक्षिपति-पुरुषामिति । एषः सन्निहितः । यौगन्धरायणः, पुरुषं, ‘व्यक्तमात्महिते क्षममितीहापि सम्बध्यते । यथा प्रेषयति, तथाहं पुष्पं प्रेषयिष्यामीति पूर्वार्धेन सम्बन्धः । प्रयोगातिशयरुपमामुखाङ्गमनेनोक्तम्। यदाह धनिकः --‘एषोऽयमियुपक्षेपात् सूत्रधारप्रयोगतः । पात्रप्रवेशो यत्रैष प्रयोगातिशयो मतः ॥” इति ॥२॥
पात्रावशेषप्रवेशचनेन कृतकार्यस्य सुत्रधारस्य नटीसहितस्य निष्क्रमणमाह-निष्क्रान्ताविति । स्थापनेति । यथोक्तकथावस्वंशस्य स्थापनात् प्रस्तावनात् स्थापना । सा चामुखमेव । आमुखमित्येव क्कचित् पाठः ।
स्थापनायां कविकाव्यनामानुकीर्तनं तदुकीर्तनसमुदाचारप्रवृत्तिकालादस्य रूपकस्य प्राचीनत्वं गमयति । अस्य रूपकस्य नामधेयं प्रतिशायौगन्धरायणमिति प्रति ज्ञानाटिकेति चावगते ‘प्रतिज्ञायौगन्धरायणं समप्तम्’, ‘प्रतिशानाटिकावसिता’ इति चादर्शग्रन्थान्तेषु लेखनात् । तत्रायं प्रतिज्ञनिर्वाही यौगन्धरायणोऽत्रेति व्युत्पत्त्या सिद्धं; द्वितीयं तु प्रतिज्ञाप्रधाना नाटिकेति व्युत्पत्त्या । अस्य प्रणेता पुनः श्रीभास इति स्वप्नवासवदत्तोपोद्धाते न्यरूपयाम । रसादिकं तु ग्रन्थान्ते निरूपयिष्यामः ॥
अथ सालकारव्यपुरुषसहितस्य यौगन्धरायणस्य प्रवेशः --तत इत्यादि ।
प्रेष्यं प्रति प्रेषणोन्मुखसदृशमाह-सालकेत्यादि । सज्जत्वविषयभूतं कार्यमिह शब्दतो नोपात्तं, वक्त्तक्ष्रोत्रोः पूर्वतरसंवादवशाद् बुद्धिस्थमेव तदिति कृत्वा । कार्ये तु महाध्वलङ्घनप्राप्ये वेणुवने स्थिताय वत्सराजाय लेखसमर्पणम्। तच्च व्यक्त्तीभविष्यति ॥
अय्येति । अथाकिमित्यङ्गीकारे । अहं सज्जोऽस्मीत्यर्थः ॥