पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रतिज्ञायौगन्धरायणे सव्याख्याने
यौगन्धरायणः- महान् खल्वध्वा गन्तव्यः ।
सालक-(क) महत्तरेण सिणेहेण अयं उवचिट्ठामि ।
यौगन्धरायणः- हन्त यास्यति बलवान्, यस्य सौहार्दम् । कुतः,
स्निग्धेष्वासज्यं कर्म यद् दुष्करं स्याद्
यो वा विज्ञाता सस्कृतानां गुणानाम् ।

(क) महत्तरेण स्नेहेनार्यमुपतिष्ठे ।

 कार्यदेशं प्रति गन्तव्यस्याध्वनो महत्तामजानतैव किमनेनात्मनः सजत्वमुच्यते उत जानतेति सन्देहात् तां ज्ञापयति--महानित्यादि । महान् खलु न त्वम्पः । अतस्तमातिश्रमलङ्कनीयं कार्यकालाहापनेन लङ्घघयितुमात्मा क्षमो न वेति विमृश्य कार्यमङ्गीकुर्वितिं भावः ॥

 महत्तरेणेति । महत्तरेण अतिमहता । स्नेहेन होर्देन समसुखदुःखत्वप्रयोजिकया चित्तवृत्या, न तु भूरिश्रुतिभेन न वा गन्तव्यमार्गारुपत्वभ्रमेण । आर्ये भवन्तम् । उपतिष्ठे सेवे अर्थात् प्रकृतभवत्प्रियकार्याङ्गीकारेण। अयमभिप्रायः— यद्यपि महान् गन्तव्योऽध्वा, तथापि तदपेक्षया महत्तरः त्वाद्विषयः स्नेहस्तल्लद्दघनभाविनं मे महाश्रमं साहयिष्यतीति बुद्धिपूर्वमेव मया कार्यमङ्गीकृतमिति ॥

 हन्तेति । यस्य नियोज्यस्य पुरुषस्य । सौहार्दे नेहः नियोक्तृविषयः । अस्तीति शेषः । बलवान् कायशक्तियुक्तः । स:, यत्तदोर्नित्यसम्बन्धात् तस्पदाक्षेपः। यास्यति लङ्घयिष्यति । अर्थान्महान्तमप्यध्वानम् । अतः स्निग्धे श्रमसहनशक्तियुक्ते च त्वयि मस्कार्ये निश्शङ्कं निसृष्टमित्यभिप्रायः । हन्तेति शकापगमजनितं सन्तोषं सूचयति । अत्र सौहार्दमित्यस्य स्थाने ‘सहार्थ’ इति कचित् पठ्यते । तदा सहशब्दस्य तुल्यार्थतया तुल्यं प्रयोजनमित्यर्थः । तच्च स्वामिकार्यामिन्नकार्यकलरूपं स्नेह एव पर्यवस्यति ॥

 नियोज्यनियोक्तृविषयस्त्रेहापेक्षायां कारणमाकाङ्कति-कुत इति ।

 स्निग्धेष्विति । यत् कर्म, दुष्करं श्रमसाध्यं स्यात्, तत् कर्म , तदित्याक्षेपलभ्यम्। स्निग्धेषु स्नेहवत्सु नियोज्येषु । आसज्यम् आसङ्क्तुं निर्वाह्यतयार्पयितुं योग्यम् । स्नेहवान् हि मियेक्त्तुः कार्यमगणितश्रमः स्वकार्यनिर्विषमनुतिष्ठतीत्यवश्यापेक्ष्यो नियोज्यस्य स्नेह इति भावः । स्निग्धसमानयोगक्षेमं दुष्करस्यं कर्मण आसञ्जनस्थानमन्यदपि प्रसङ्गादाह--यः, सत्कृतानां पूजितानां । गुणा-