पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोऽङ्कः ।
क्रीतं सामर्थ्यं यस्य तस्य क्रमेण
दैवप्रामाण्याद भ्रश्यते वर्धते वा ॥ ३ ॥
अथ वेणुवनात् त्रिषु गहनेषु नागवनं श्वः प्रयाता स्वामी प्रागेव सम्भावयितव्यः ।

नाम आसज्यमानकर्मप्रभवाणां लोकहितानां फलानां । विज्ञाता अभिज्ञः। भवति, तस्मिन् वा नियोज्ये । यत्पदांक्षिप्तस्य तत्पदस्य योग्यतया सप्तम्यन्तता । दुष्करं कर्म आसज्यमिति सम्बध्यते । गुणज्ञो हि नियोक्तर्यस्निग्धोऽपि तदर्पितं कर्म सेस्यत्प्रशस्तफलबहुमानादगणितश्रमः स्वीयमिवानुतिष्ठत्येवेत्यवश्यापेक्ष्यं नियोज्यस्य स्निग्धस्वभावपक्षे गुणज्ञत्वमिति भावः । नियोक्तुकृत्यमुक्त्वा नियोज्यकृत्यसम्बद्धमाह-- क्रमेण न्यायेन । क्रीतं नियोक्त्रायत्तीकृतं, नियोक्तृसमर्पिते कर्मणि निरवशेषविनियुक्तमित्यर्थः । यस्य तस्य यस्य वा तस्य वा, स्निग्धगुणज्ञयोर्मध्ये यस्यकस्यापीइयर्थः । इह यत्तच्छब्दौ सहप्रयुक्तावनियतविशेषवृत्ती ‘यथातथा भवत्वितिवत् । तत्र हि प्रकारविशेषस्यानियतत्वं प्रतीयते, प्रकरेषु मध्ये यः कश्चित् प्रकारोऽस्त्विति तदर्थात् । अनियमस्फुटीकरणार्थे तु कदाचिदीडशे विषये वाशब्दोऽपि प्रयुज्यते—‘यस्य वा तस्य वा ’, ‘यया वा तया वा ’ ‘यद्वा तद्वा’ इति । सामर्थ्ये कर्मकौशलं । दैवप्रामाण्याद् नियोर्भाग्यवैभवात् । भ्रश्यते फलाच्च्यवते; इहात्मनेपदमार्षम् । वर्धते वा फलेन युज्यते वा। स्वाङ्गीकृते कर्मणि समग्रस्वसामर्थविनियोगमात्रं नियोज्यस्य कृत्यं, दैववशत्तु कदाचित् फलविसंवादेऽपि तस्य नापराध इति भावः । अत्र स्निग्धत्वविस्त्रम्भान्महान् कर्मभा२स्त्वयि मया न्यस्तः, त्वं च यावच्छक्त्ति तस्मिन् फलविसंवादनिर्विशङ्को यतस्वेति विशेषे प्रकृते कथनीये सामान्यन्यायस्योपन्यसनात् सामान्यनिबन्धनाप्रस्तुतप्रशंसालङ्कारः ॥ ३ ॥

 सलकोत्सहानुगुणमुक्त्वाध्वनो लङ्घनकालेयत्तां बोधयति--अथेत्यादि । वेणुवनात् नर्मदातीरसमीपवर्तिनो वनाविशेषादवधेः । त्रिषु, गहनेपु तदुपक्ष्लिष्टेषु वनेषु मध्ये । नागवनं तदाख्यं गजबहुल वनं । श्वः परेघुः । प्रयाता प्रस्थाता । स्वामी वत्सराजः । प्रागेव सम्भावयितव्य: नागवनप्रयाणारम्भात् पूर्वमेव द्रष्टव्यः । अतः वेणुवने श्वः प्रातः स्वामी यथा ते दृश्यो भवेत्, तथा वेगमाश्रित्य मार्गे लङ्कयेत्यभिप्रायः । ‘वेणुवनाश्रितेषु गहनेषु’ इति मातृकान्तरपाठ’ समीचीनतरः ॥