पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१३८

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२६
प्रतिज्ञायौगन्धरायणे सव्याख्याने

भोः ! ज्ञायतां शब्दः ।

 काञ्चुकीयः -यदाज्ञापयस्यार्थः । (निष्क्रम्य प्रविश्य ) एष! तत्र मवरयङ्गरव शोकाभिभूतहृदया प्रासादाच्छरीरं विमोक्तुकामा महासेनेना- भिहिता यथा-क्षत्रधर्मेणोद्दिष्टस्ते दुहितुर्विवाहः । किमिदानीं हडै- काले सन्तप्यसे । तच्चित्रफलकस्थयोर्वत्सराजवासवदत्तयोर्विवाहोऽतुष्ठीयताम् इति । तत्र हि,

स्त्रीजनेनाद्य सहसा प्रहर्षव्याकुलक्रमा ।
क्रियते मङ्गलकण सबाष्पा कौतुकक्रिया ॥ २५ ॥

 यौगन्धरायणः—एवं सम्बन्धं मन्यते महासेनः। तेन ह्यानीयतां । भुञ्जरः ।

 काञ्चुकीयः -गृह्यताम् (उपनयति । )


 भा इत्यादि ।

 यदित्यादि । योकाभिभूतहृदया वासवदत्ताहरणदुःखाविष्टचित्ता । क्षत्रध मेंण क्षत्रियोचितेन विधिना, गान्धर्वविधिना । उद्दिष्टः शास्त्रे उपदिष्टः । विवाह वृत्त इति शेषः । चित्रफलकस्थयोरिते सहितयोरालेख्यास्थतकथनेन परस्परवित्र म्भपरमकाष्ठा प्रकाशिता । तत्र प्रासादे ।

 स्त्रीजनेत्यादि । प्रहर्षव्याकुळक्रमा प्रहर्षेण व्याकुलः भिन्नः क्रमः कार्यपरि- पाटी यस्यां सा । मङ्गलकर्णं पुष्पचन्दनहरिद्रादिभिर्मङ्गलद्र व्यैः सान्द्रा । विकी ऐमङ्गलद्रव्या वा । आहिताग्न्यादिवादकीर्णपदस्य परनिपातः । कौतुकक्रिया क्रि यते मङ्गलकर्म अनुष्ठीयते। अनुष्ठानवर्तमानस्य अङ्गरव त्या: शरीरत्यागसंरम्भा निवृचिट्ठतिता । एतेन पूर्वोको वनिरङ्गारवती शोकसंरम्भदर्शनोद्विग्नीजनजनित इति बोद्धव्यम् ॥ २५॥ ।

 एवमित्यादि । एवमिति निश्चये । तेन हि वासवदत्तावत्सराजयोर्विवाहस - स्म्बन्धस्य महासेनानुमतत्वेन हेतुना । शृङ्गार आनीयतां, सरस्वामिविवाहमहोरस चातुं संबन्धिना क्रियमाणं भृङ्गारदानसत्कारं स्वीकर्ते सजोऽस्मीत्यभिप्रायः ।

 गृह्यतामिति ॥