पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२५
चतुर्थोऽङ्कः ।

इति ।

 यौगन्धरायणः--हा धिक्।

गृहा न निर्वान्ति मया -प्रदीपितास्तथैव तावद्धृदयानि मन्त्रिणाम् ।,br \>
इयं तु पूजा मम दण्डधारिणः कृतापराधस्य हि सत्कृतिर्वधः ॥ २३ ॥

(नेपथ्ये हाहाकारः क्रियते ।)

 भरतरोहकः-अये,

को नु खल्वेष सहसा प्रासादाग्राद् विनिःसृतः ।
श्येनपक्षाभिमृष्टानां कुररीणामिव ध्वनिः ॥ २४ ॥

तोषो नास्त्येव , किन्तु परितोष एवास्तीत्यर्थः । अत एव, शृङ्गारः प्रतिगृह्यतां कनत्र्कलुकारूपं पारितोषिकं मया दीयमानं स्वीक्रियतां भवतेत्यर्थः। ‘काभं चानुमतौ स्मृतं । प्रकाभे च' इति मेदिनी ॥ २२ ॥

 इतिशब्दः सन्देशसमाप्तौ । इतिपदानन्तरं ‘ महासेन आह ’ इत्यपेक्षितं, सामर्थ्याद् गम्यं वा ॥

 भृङ्गारसत्कारमरोचयमान आह--हेति । हाधिक् कष्टम् ।

 गृहा इति । मया, प्रदीपिताः गृहाः नलागिरिचित्तोभ्द्रमणायाग्निनः सन्धुक्षिताः । गुहाः, न निर्वान्ति न शाम्यन्ति । वस्तुतो निर्वाणानामेवेदमनिर्वाणत्वकथनमचिरनिर्वाणत्वद्योतनद्वारेण गृहसन्दीपनापराधस्यार्द्रतां व्यङ्क्त्तम् मन्त्रिणां भरतरोहकादीनां हृदयानि । तथैव तावत् , मया प्रदीपितानि न निर्वान्ति, मया मद्दसेनप्रतिकूलाचरणात् प्रकोपितान्यद्यापि न शाम्यन्तीत्यर्थः । तु तथापि । दण्डधारिणः दण्डप्रणयनधिकृतात् महासेनात्। उक्त पराधवत्तया दण्डार्हस्येति ममपदार्थविशेषणं वा । मभ, इयं पूजा भृङ्गारोपहारसत्कृतिः । उपनमतीति शेषः । उपनमतु कामं, सा स्वीक्रियतामिति चेत् तत्राह-कृतापराधस्य जनस्य, सत्कृतिः वघो हि बधारूपः परमो दण्डः खल्ल । अतो भृङ्गारसत्कारं प्रतिग्रहीतुं नेच्छामीत्यभिप्रायः ॥ २३ ॥

 नेपथ्य इत्यादि ॥

 कोन्वित्यादि । श्येनयक्षभिमृष्टानामिति भयदुःखोद्भगेव्यतिकरव्याकुलितत्वद्योतनार्थम् । कुररीणामिव उत्क्रोशाख्यानां शकुनीनमिव । सातूनामिव ध्वमिरि ’ति क्कचित् पठ: ॥ २४ ॥