पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
प्रतिज्ञायौगन्धरायणे सव्याख्याने

भोः ! ज्ञायतां शब्दः ।

 काञ्चुकीयः -यदाज्ञापयत्यार्थः । (निष्क्रम्य प्रविश्य ) एष! तत्रमवरयङ्गरवती शोकाभिभूतहृदया प्रासादाच्छरीरं विमोक्तुकामा महासेनेनाभिहिता यथा-क्षत्रधर्मेणोद्दिष्टस्ते दुहितुर्विवाहः । किमिदानीं हर्षकाले सन्तप्यसे । तच्चित्रफलकस्थयोर्वत्सराजवासवदत्तयोर्विवाहोऽतुष्ठीयताम् इति । तत्र हि,

स्त्रीजनेनाद्य सहसा प्रहर्षव्याकुलक्रमा ।
क्रियते मङ्गलकीर्णा सबाष्पा कौतुकक्रिया ॥ २५ ॥

 यौगन्धरायणः—एवं सम्बन्धं मन्यते महासेनः। तेन ह्यानीयतां भुञ्जरः ।

 काञ्चुकीयः -गृह्यताम् (उपनयति । )


 भा इत्यादि ।

 यदित्यादि । शोकाभिभूतहृदया वासवदत्ताहरणदुःखाविष्टचित्ता । क्षत्रधमेंण क्षत्रियोचितेन विधिना, गान्धर्वविधिना । उद्दिष्टः शास्त्रे उपदिष्टः । विवाहवृत्त इति शेषः । चित्रफलकस्थयोरिति सहितयोरालेख्यास्थितिकथनेन परस्परविस्त्रम्भपरमकाष्ठा प्रकाशिता । तत्र प्रासादे ।

 स्त्रीजनेत्यादि । प्रहर्षव्याकुळक्रमा प्रहर्षेण व्याकुलः भिन्नः क्रमः कार्यपरिपाटी यस्यां सा । मङ्गलकीर्णा पुष्पचन्दनहरिद्रादिभिर्मङ्गलद्रव्यैः सान्द्रा । विकीर्णमङ्गलद्रव्या वा । आहिताग्न्यादित्वादकीर्णपदस्य परनिपातः । कौतुकक्रिया क्रियते मङ्गलकर्म अनुष्ठीयते। अनुष्ठानवर्तमानतोक्त्या अङ्गारव त्या: शरीरत्यागसंरम्भान्निवृत्तिर्घोतिता । एतेन पूर्वोक्को घ्वनिरङ्गारवती शोकसंरम्भदर्शनोद्विग्नस्त्रीजनजनित इति बोद्धव्यम् ॥ २५॥

 एवमित्यादि । एवमिति निश्चये । तेन हि वासवदत्तावत्सराजयोर्विवाहसस्म्बन्धस्य महासेनानुमतत्वेन हेतुना । शृङ्गार आनीयतां, मत्स्वामिविवाहमहोरसचाङ्गं संबन्धिना क्रियमाणं भृङ्गारदानसत्कारं त्वीकर्ते सजोऽस्मीत्यभिप्रायः ।

 गृह्यतामिति ॥