पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
प्रतिज्ञायौगन्धरायणे सव्याख्याने

हत्वा गजान् सगजिनः सहायांश्च यौधानक्षौहिणीमातिविगाह्य बलान्मुहूर्तम्। नागेन्द्रदन्तमुसलाहतभग्नबाहुद्वेष्टायुधोऽपि ननिवृत्तपदोऽभियतः ॥ ५ ॥ हा धिगू, प्रहणमुपगतः खल्वार्ययौगन्धरायणः । यावदहमप्यार्ययौगन्धरा -- यणस्य प्रत्यन्तरीभविष्यामि । (निष्क्रान्तः )

 भटः-- (क) किंणुषु एदं। पाआरतोरणवज्जं सव्वं कोसम्बी खु इदं । होदु, इमं वृत्तान्तं अमच्चस्स णिवेदेमि ।

(निष्कान्तः ।)

प्रवेशकः ।

(ततः प्रविशतः साधारणौ ।)

 उभौ–(ख) उस्सरह उस्सरह अय्या उस्सरह ।


 (क) किन्नुखल्वेतत् । प्राकारतोरणवजं सर्व कौशाम्बी खल्विदम्। भवविर्भ वृत्तान्तममात्याय निवेदयामि ।

 (ख) उत्सरतोत्सरतार्था । उसरत ।


 हत्वेत्यादि । सगाजिनः गजी आधोरणः तत्सहितान् । नागेन्द्रदन्तमुखळ इतभग्नबाहुः नागेन्द्रस्य गजराजस्य दन्तमुसलेन मुसलसदृशेन दन्तेन आइतः अ भिहतः अत एव भभः बाहुर्यस्य सः । भ्रष्टायुधोऽपि इस्तच्युतप्रहरणोपि । नानवृतपदः अनपसृतपदः । नषर्यकनशब्दसमासः । अभियातः शज्वाभिमृखं गतः ॥ ५ ।।

 हा धिगित्यादि । प्रत्यन्तरीभविष्यामि प्रत्यासन्नीभविष्यामि ॥ वत्सराजयोघानां बाहुल्यं दृष्टाह--किंणुषु इत्यादि । सर्वे, इदम् उज- यिनीपुरं । प्राकारतोरणवॐ शालबहिर्दूरे वर्जयित्वा । कौशाम्बी खलु । वत्सरांज धान्येव । वत्सराजपुरुषभूयिष्ठत्वादेवमुक्तम् । कौशाम्बी खु इयं संवुलेति पाठे इयम् उजयिनी ।

 अय गृहीतं यैगन्धरायणं फलकशयन आरोप्यानयतोर्भटयो: प्रवेशः-तत इत्यादि । साधारणे खामान्यभटै । उस्सरहेत्यादि ।