पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११३
चतुर्थाऽङ्क

 प्रथमः --(क) अंघो कण्ठस्स दीअमाणस्स ण उच्चं विरमदि ।

 द्वितीयः-(ख) अंघो भाट्टिदारिआए वासवदत्ताए अवणअणविब्भमदाए बिरुवन्तस्स मे वअणं कोच्चि ण सुणादि । अंघो किं भणह—-किण्णिमित्तं उस्सारणा वत्तदि त्ति । गहीदो अय्यजोअन्धराअणो । किं भणह - कहं गहीद त्ति । सुणन्तु अय्या । अय्यजोअन्धराअणेण असिदुदीएण अक्खोहिणीए अग्गवेगो मुहुत्तअं धारिदो। विजयसुन्दरस्स हथिणो दन्तन्तचोदिदो असी विषण्णो । असिदोसेण गहीदो, ण पुरुसदोसेण ।

 प्रथमः--(ग) अंघो अप्पमत्ता होइ तुझे । पाआरतोरण वज्जं सव्वं कोसम्बी खु इअं ।


 (क) अञ्चो कण्ठस्य दीर्यमाणस्य नोच्चं विरमति ।

 (ख) अङ्घो भर्तृदारिकाया वासवदत्ताया अपनयनविभ्रमतया विरुवतो मे वचनं कश्चिन्न श्रुणोति । अङ्घो किं भणथ -किन्निमित्तमुरसारण वर्तत इति । गृहीत आर्ययौगन्धरायणः । किं भणथ– कथं गृहीत इति । क्षृण्वन्त्वार्याः । आर्ययौगन्धरायणेनासिद्वितीयेनाक्षौहिण्या अग्रवेगो मुहूर्तं घारितः । विजयसुरस्य हस्तिनो दन्तान्तचोदितो ऽसिर्विपन्नःअसिदोषेण गृहीतो, न पुरुषदोषेणा

 (ग) अङ्घो अप्रमत्ता भवत यूयम् । प्राकारतोरणवर्जं सर्वं कौशाम्बी खल्वियम् ।


 अंघो इत्यादि । अंघो इति दुःखे । दीर्यमाणस्य उत्सारणध्वन्युच्चत्वकरणाय अत्यायास्यमानस्य । कण्ठस्य, अनादरे षष्ठी । उञ्चं पथिमिलितपौरकलकलोच्चत्वं । न विरमति । मत्कण्ठायासजानितमुत्सा रणध्वन्युच्चत्वं जनकलकलोच्चतां न्यक्कर्तुं न प्रभवतीति वाक्याभिप्रायः ।

 अंघो भट्टीत्यादि । अपनयनविभ्रमतया अपनयनेन अपहरणेन विभ्रमः उन्मादो यस्य तस्य भावस्तत्ता तया हेतुना । अग्रवेगः अग्रपराक्रमः । धारितः सोढः । विजयसुन्दरस्य तदाख्यत्य। दन्तोन्तचोदितः दन्तान्ते यौगन्धरायणेन चोदितः । विपन्नः भग्नः । पुरुषदोषेण दुर्बलत्वभीरुत्वादिना ॥

 अंघो अप्पमत्ता इत्यादि । इयम् उज्जयिनी ॥