पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
चतुर्थाऽङ्क
नवं शरावं सलिलैः सुपूर्ण सुसंस्कृतं दर्भकृतोत्तरीयम् ।
ततस्य मा भून्नरकं स गच्छेद् यो भर्तृपिण्डस्य कृते न युध्येत् ॥ ३ ॥

क्कनुखल्वार्ययौगन्धरायणः। अये अयमत्रभवान् आर्थयौगन्धरायणः । य एषः निशितविमलखङ्गः संहृतोन्मत्तवेषः कनकरचितचर्मव्यग्रवामाग्रहस्तः । विरचितबहूचीरः पाण्डराबद्धपट्टः सतडिदिव पयोदः किञ्चिदुद्गर्णिचन्द्रः ॥ अहो महत् प्रवृत्तं युद्धम् ।


 नवमिति । यः भर्तृपिण्डस्य कृते भुक्तस्य स्वाम्यन्नस्यर्थे । न युध्येत्, तस्य अनिष्क्रीतभर्तृपिण्टस्य पुंसःसलिलै: जलैः। सुपूर्णं, सलिलस्य पूर्णमिति पाठे सम्बन्धस।मान्ये षष्ठी । सुसंस्कृतं सुष्ठ् संस्कृतम् आभ्युदयिकैर्मन्त्रैरभिमन्त्रितं। दर्भकृतोत्तरीयं कुशपरिवेष्टितं । तद् भर्तुपिण्डार्थयोद्धृमात्रलभ्यतया प्रसिद्धं । नवे नूतनं । शरावं पात्रविशेषः । अर्थाद् यथोक्तपात्रोपहारसत्कारः । भा। भूत् न स्यात् । न केवलमर्थाळाभस्तस्य, किन्तु सोऽनर्थमपि कृतघ्नत्वात् प्राप्नोतीत्याह--सः, नरकं रौरवादिकं पापफलभोगस्थानं । गज्छेत् , नरकं च गच्छेदिति पाठे ख इत्यर्थळभ्यं, चकारश्च शरावसत्काराभावसमुच्चयार्थः । अतो विशिष्टपात्रोपहारसत्कारलाभाय नरकाप्राप्तये च यावच्छक्त्ति युध्यध्वमित्यभिप्रायः युध्येदिति परस्मपैदमार्षम्, अनुदात्तेत्त्वलक्षणात्मनेपदानित्यत्वप्रयुक्त्तं वा । कौटिलीयार्थशास्त्रे योधयुद्धप्रोत्साहनप्रकारोपदशप्रकरण ’स ते गतियो शूरणाम्’ इति क्ष्रौतं प्रमाणं प्रथममुपदर्य क्ष्लोकोऽयं स्फूतिकल्पः प्रमाणतयोदाहृतः कौटिल्याद् मासस्य पुरातनतां गमयतीत्यवगन्तव्यम् ॥ ३ ॥

 केत्यादि । य एष इति क्ष्लोकान्वयि ।

 निशितेति । निशितविमलखङ्गः तीक्ष्णवच्छकृपाणः । संहृतोन्मत्तवेषः सहृतस्यक्त्त उन्मत्तवेषो येन सः । कन करचितचर्मव्यग्रामाग्रहस्तः कनकराचिते स्वर्णालङ्कृते चर्मणि शस्त्रनिवारणसधने फलकाख्ये व्यग्रो व्यापृतः वामः अग्रहस्तः यस्य सः । विरचितबहु चीरः विराचितानि देह विन्यस्तानि बहूनि चीराणि वस्त्राणि येन सः । पाण्डराबद्धपट्टः पण्डर आबद्धः पट्टः उष्णीषपट्टी। येन स: । य एषः । सतडिद् विघुघुक्तः । किञ्चिदुद्रीर्णचन्द्रः ईषदुद्वान्तचन्द्रः । पयोद इव मेघ इव । भवतीति शेषः । इहोपमायां कनकतद्धितोः पट्टचन्द्रयोश्च बिम्बप्रतिबिम्बभाव: ॥ ४ ॥

 अहो इत्यादि । ‘अहो प्रतिभयमिदं युद्धम्' इति क्कापि पाठः ।