पृष्ठम्:प्रतिज्ञायौगन्धरायणम् (सव्याख्यम्).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
प्रतिज्ञायौगन्धरायणे सव्याख्याने

हत्वा गजान् सगजिनः सहायांश्च यौधानक्षौहिणीमातिविगाह्य बळान्मुहूर्तम्। नागेन्द्रदन्तमुसलाहतभग्नबाहुर्भ्रष्टायुधोऽपि ननिवृत्तपदोऽभियातः ॥ ५ ॥

हा धिगू, ग्रहणमुपगतः खल्वार्ययौगन्धरायणः । यावदहमप्यार्ययौगन्धरायणस्य प्रत्यन्तरीभविष्यामि । (निष्क्रान्तः )

 भटः-- (क) किंणुखु एदं। पाआरतोरणवज्जं सव्वं कोसम्बी खु इदं । होदु, इमं वुत्तान्तं अमच्चस्स णिवेदेमि ।

(निष्कान्तः ।)

प्रवेशकः ।

(ततः प्रविशतः साधारणौ ।)

 उभौ–(ख) उस्सरह उस्सरह अथ्या उस्सरह ।


 (क) किन्नुखल्वेतत् । प्राकारतोरणवजं सर्व कौशाम्बी खल्विदम्। भवत्विमं वृत्तान्तममात्याय निवेदयामि ।

 (ख) उत्सरतोत्सरतार्था । उत्सरत ।


 हत्वेत्यादि । सगजिनः गजी आधोरणः तत्सहितान् । नागेन्द्रदन्तमुसलाइतभग्नबाहुः नागेन्द्रस्य गजराजस्य दन्तमुसलेन मुसलसदृशेन दन्तेन आइतः अभिहतः अत एव भग्नः बाहुर्यस्य सः । भ्रष्टायुधोऽपि इस्तच्युतप्रहरणोपि । ननिवृतपदः अनपसृतपदः । नञर्यकनशब्दसमासः । अभियातः शत्रभिमुखं गतः ॥ ५ ॥

 हा धिगित्यादि । प्रत्यन्तरीभविष्यामि प्रत्यासन्नीभविष्यामि ॥

 वत्सराजयोघानां बाहुल्यं दृष्ट्वाह--किंणुखु इत्यादि । सर्वे, इदम् उज्जयिनीपुरं । प्राकारतोरणवर्जे तालबहिर्द्वारे वर्जयित्वा । कौशाम्बी खलु । वत्सरांजधान्येव । वत्सराजपुरुषभूयिष्ठत्वादेवमुक्तम् । कौशाम्बी खु इयं संवुत्तेति पाठे इयम् उजयिनी ।

 अय गृहीतं यौगन्धरायणं फलकशयन आरोप्यानयतोर्भटयो: प्रवेशः-तत इत्यादि । साधारणौ सामान्यभटौ ॥

 उस्सरहेत्यादि ॥