पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/३७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रयमोऽध्यायः । उत्पाद्यमाप्यं संस्कायै विकायै च क्रियाफलम् । नैवं मुक्तिर्यतस्तस्मात्कर्म तस्या न साधनम् ॥ ५३ ॥ एवं तावत्केवलं कर्म साक्षादविद्यापनुतये न पर्याप्त मिति प्रपञ्चितम् । मुक्तौ च मुमुक्षुज्ञानता भाव्यानुरोधेन सर्वप्रकारस्यापि कर्मणोऽसम्भव उक्तो “हितं सम्प्रेप्सतामि”त्यादिना । यादृशश्चारादुपका रकचेन ज्ञानोत्पत्तौ कर्मणां समुच्चयः सम्भवति तथा प्रतिपादितम् । अविद्योच्छित्तौ तु लब्धात्मस्वभावस्यात्म ज्ञानयैवासाधारणं साधकतमत्वं नान्यस्य प्रधानभू तावदहेतुरित्येतदाह । सन्निपत्य न च ज्ञानं कर्माज्ञानं निरस्यति । साध्यसाधनभावत्वादेककालानवस्यितेः ॥ ५४ ॥ स्योत्पाद्यादेर्मुक्तावसम्भवात्सम्भवतश्ध स्वरूपेणावस्थानस्य कर्मानपेक्ष त्वान्न मुक्तः कर्मसाध्यत्वमित्यर्थः ॥ ५३ ॥ वृत्तकीर्तनपूर्वकं वर्त्तितष्यमाणग्रन्थसंदर्भस्य तात्पर्यमाह एवं ताव दिति । अनित्यफलाद्विरक्तत्वं मुमुक्षुस्वभावः । ज्ञानस्य प्रमाणवस्तुपर तन्त्रतयाविद्यानिवत्र्तकत्वं स्वभावः । शानाधिपयस्य चात्मनः कृतटस्थत्वे नासाध्यत्वं स्वभावः । पूर्व केवलकर्मणां मुक्तिसाधनत्वं निराकृतमि दानीं ज्ञानेनाङ्गाङ्गिभावेन समप्रधानतया वा समुचितस्य मुक्तिसाधनत्वं न सम्भवतीत्युच्यत इत्यर्थः । एवं समुदायतात्पर्थमभिधायाधुना सम नन्तरश्लोकतात्पर्यमाह तत्रेति । ज्ञानं गुणभूतं कर्म प्रधानमित्येतन्पक्ष निरासायोत्तरश्लोकारम्भ इत्यर्थ । स्सन्निपत्येति । कर्मणोऽङ्गन्धेन इज्ञानं कर्म सन्निपल्य प्राण्याविद्यां न निरस्यति कुत इत्यत आह साध्यसाध