समप्रधानयोरप्यसम्भव एव ।
बाध्यबाधकभावाच्च पञ्चास्योरणयोरिव ।
एकदेशानवस्यानान्न समुच्चयता तयोः ॥ ५५ ॥
कुत्ता बाध्यबाधकभावः । यस्मात् ।
अयथावस्खविद्या स्याद्विद्या तस्या विरोधिनी ।
समुच्चयस्तयोरेवं रविशार्वरयोरिव ॥ ५६ ॥
तस्मादकारकब्रह्मात्मनि परिसमाझावबोधस्याशेषकर्म
चोदना नाम चोद्यस्वाभाव्याकुण्ठिताः । कथं तात् ।
अभिधीयते ।
बृहस्पतिसवे यद्वत्क्षत्रियो न प्रवर्तते ।
ब्राह्मणत्वाद्यहम्मानी विप्रो वा क्षत्रकर्मणि ॥ ५७ ॥
नेति । कर्मणोऽन्तःकरणशुद्धिद्वारेण ज्ञानसाधनत्वात्साध्येन ज्ञानेन सहैककालानवस्थितेनङ्गाङ्गिभावः । तत्साध्यस्य तदङ्गत्वादृष्टेरेकप्रयोगानारूढत्वाजन्मान्तरानुष्ठितस्यापि कर्मणो ज्ञानसाधनत्वाङ्गीकाराचेत्यर्थः ॥ ५४ ॥
इदानीं समसमुच्चयनिरासायाह समप्रधानयोरिति । पञ्चास्यः सिंहः उरणो मेषः । एकदेश एकस्मिन्नाश्रयेऽनवस्थानान्न समप्रधानतापि तयोरित्यर्थः ॥ ५५ ॥
उक्तस्यैव बाध्यबाधकभावहेतोः समर्थनायाह कुत इति । अयथावस्त्विति । परमार्थात्मवस्तुविषयं ज्ञानम् । अविद्याध्यारोपितमिथ्याकर्तृत्वाद्यभिमानसम्बन्धनिमित्तं कर्माविद्या । तयोरेवमितरेतरबाध्यबाधकभावेन वर्तमानयोज्ञानकर्मणोः प्रकाशतमसोरिव विरुद्धः समुच्चय इतस्मान्न ज्ञानिनः कर्मनियोगविषयत्वमित्युपसंहरति तस्मादिति । अकारकब्रह्मात्मावबोधोन्मूलितकर्माधिकारसम्बन्धस्याकत्रत्माभिमान-