यथायं दृष्टान्त एवं दाष्टौतिकोऽपीत्यत आह ।
विदेहो वीतसन्देहो नेतिनेत्यवशेषितः ।
देहाद्यनामदृक्तद्वतक्रियां वीक्षतेऽपि न ॥ ५८ ॥
तस्यार्थस्याविष्करणार्यमुदाहरणम् ।
मृत्स्त्रेभके यथेभत्वं शिशुरध्यस्य वल्गति ।
अध्यस्यात्मनि देहादीन्मूढस्तद्वविचेष्टते ॥ ५९ ॥
न च वयं ज्ञानकर्मणोः सर्वत्रैव समुच्चयं प्रत्याचक्ष्महे ।
यत्र प्रयोज्यप्रयोजकभावो ज्ञानकर्मणोस्तत्र नास्मत्पिचापि शक्यते निवारयितुम् । तत्र विभागप्रदर्शनायोदाहरणं प्रदश्यते ।
स्याणं चोरधियालाय भीतो यद्वत्पलायते ।
बुद्धयादिभिस्तथात्मानं भ्रान्तोऽध्यारोप्य चेष्टते ॥६०॥
वतो विधिप्रतिषेधशास्त्रगोचरत्वं नास्तीत्यर्थः । तत्र को हेतुरित्याशङ्कय तत्त्वज्ञानाद्वर्णाश्रमाद्यभिमानशून्यत्वमिति दृष्टान्तान्तरमाह बृहस्पतिसव इति ॥ ५७ ॥
दार्टीन्तिकमाह विदेह इति । विदेह इत्यनेन स्थूलशरीराभिमानाभाव उक्तः । वीतसन्देहो विगतसन्देह एतेन संशयात्मकस्सूक्ष्मशरीराभावः सूच्यते । तत्र हेतुनेति नेतीति । देहाद्यनात्मदृग्देहेन्द्रियादावात्माभिमानहीन इत्यर्थः ॥ ५८ ॥
एवं देहादौ मिथ्याभिमानवत एव प्रवृत्तिनभिमानशून्यस्येत्युक्तम् । तत्र मिथ्याभिमानात्प्रवृत्ति दृष्टान्तेन दर्शयति तस्यार्थस्येति । मृत्झेभके प्रशस्तमृन्निर्मिते कलभे ॥ ५९ ॥
एवं तावत्सन्निपत्य न च ज्ञानमित्यादिना ज्ञानकर्मणोः समुच्चयो निराकृतस्तदेतद्युतं “यदेव विद्यया करोति” “ज्ञात्वा कर्माणि कुर्वीते”-