एवं यत्र यत्र ज्ञानकर्मणोः प्रयोज्यप्रयोजकभावस्तत्र तत्र
सर्वत्रायं न्यायः । यत्र तु न समकालं नापि क्रमेणोपपद्यते समुच्चयः स विषय उच्यते ।
स्थाणोः सतत्वविज्ञानं यथा नाङ्गः पलायने ।
आत्मनस्तत्वविज्ञानं तद्वन्नाङ्ग क्रियाविधौ ॥ ६१ ॥
यद्धि यस्यानुरोधेन स्वभावमनुवर्तते ।
ततस्य गुणभूतं स्यान्न प्रधानाहुणो यतः ॥ ६२ ॥
त्यादिवचनविरोधादित्याशङ्कयाह न च वयमिति। यत्र ज्ञानकर्मणोः प्रयोज्यप्रयोजकभावो निमित्तनैमित्तिकभावस्तत्र न केनापि तयोः समुच्चयो वारयितुं शक्यत इत्यर्थः । कुत्र तर्हि ज्ञानकर्मणोः प्रयोज्यप्रयोजकभावः कुत्रासौ नास्तीत्यत आह तत्र विभागेति । यथा चोरधिया स्थाणुमालाय गृहीत्वा पलायत एवं बुद्धयादिरूपेणात्मानं गृहीत्वा कर्म करोतीति । तेन तत्र कर्मप्रवृत्तिनिमित्तत्वाज्ज्ञानं कर्माङ्गमित्यर्थः ॥ ६० ॥
*यदेव विद्यया करोति' “शात्वा कर्माणि कुवते'त्यादावप्ययमेव न्याय इत्यतिदिशति एवं यत्रेति । आत्मज्ञानस्य तु कर्मप्रवृत्तौ प्रयोज्यप्रयोजकभावाभावान्न तेन समुच्चय इति सदृष्टान्तमाह यत्र तु न समकालमिति । स्थाणोः सतत्वविज्ञानामिति । स्थाणुविषयं तत्त्वज्ञानं स्थाणुरेवायं न चोर इति तत्त्वज्ञानं यथा नाङ्गमेवमात्मतत्त्वविज्ञानमकर्तृब्रह्माहमस्मीति शानं कर्मप्रवृत्ती नाङ्गमित्यर्थः ।। ६१ ॥
प्रधानत्वेनाभिमतकर्मनिवर्तकत्वादपि नात्मशानं कर्माङ्गमिल्याह यस्माद्भणस्येति । गुणस्यैतत्स्वभावत्वमस्ति यत्प्रधानानुरोधित्वं तच तत्त्वज्ञानस्य नास्तीत्यर्थः । प्रधानमत्तीति प्रधानात् । यत्प्रधानविरोधि न तदङ्गमित्यर्थ ॥ ६२ ॥