यस्मात् ।
कर्म प्रकरणाकाङ्गि ज्ञानं कर्मगुणो भवेत् ।
यद्धि प्रकरणे यस्य तत्तदङ्गं प्रचक्षते ॥ ६३ ॥
स्वरूपलाभमात्रेण यत्वविद्यां निहन्ति नः ।
न तदङ्ग प्रधानं वा ज्ञानं स्यात्कर्मणः कचित् ॥६४॥
समुच्चयपक्षवादिनाप्यवश्यमेतदभ्युपगन्तव्यम् । यस्मात् ।
अज्ञानमनिराकुर्वन् ज्ञानमेव न सिध्यति ।
विपन्नकारकग्रामं ज्ञानं कर्म न ढौकते ॥ ६५ ॥
इदं चापरं कारणं ज्ञानकर्मणोः समुच्चयनिबर्हि ।
हेतुस्वरूपकार्याणि प्रकाशतमसोरिव
विरोधीनि ततो नास्ति साङ्गन्यं ज्ञानकर्मणोः ॥ ६६ ॥
विनियोजकप्रकरणादिसद्भावात्कर्मस्वरूपादिसम्यग्ज्ञानस्य तदङ्गत्वमुचितमात्मज्ञानस्य तु प्रकरणाद्यभावान्न तदङ्गत्वमित्यभिप्रेत्याह यस्मादिति । कर्म प्रकरणाकाङ्कीति ॥ ६३ ॥
एतदेव स्पष्टयति स्वरूपलाभेति ॥ ६४ ॥
आत्मज्ञानस्य कमणा समुच्चयमभ्युपगच्छता तस्य प्रमाणज्ञानत्वात्स्वविषयाविद्यानिवर्तकत्वं बलाद्भ्युपेयम् । तथा सति न स्वाभिमतसमुच्चयसिद्धिरित्याह समुच्चयपक्षवादिनापीति । नल्वज्ञानमनिराकुर्वज्ज्ञानमेव न सिध्यति ततः किमित्यत आह विपन्नेति । कारकग्रामाभावे कर्मण एवाभावान्न ज्ञानं कर्म स्पृशतीत्यर्थः ॥ ६५ ॥
इदमिति । हेतुस्वरूपकार्याणीति । ज्ञानस्य हेतुः प्रमाणम् । स्वरूपं च परमार्थप्रकाशात्मकत्वम् । कार्यमविद्यानिवृत्तिः । कर्मणो हेतुरविद्यारागादिः । स्वरूपमप्रकाशात्मकत्वम् । कार्यमुत्पत्त्याश्यादीति परस्परविरोधीनि ॥ ६६ ॥