पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

एवमुपसंहृते केचित्स्वसम्प्रदायबलावष्टम्भादाहुर्यदेतद्वेदान्तवाक्यादहं ब्रक्षेति विज्ञानं समुत्पद्यते तत्रैव स्वोत्पतिमात्रेणाज्ञानं निरस्यति किंतहन्यहनि द्राधीयसा
कालेनोपासीनस्य सतो भावनोपचयान्निःशेषमज्ञानमपगच्छति “देवो भूत्वा देवानप्येती'ति श्रुतेः । अपरे तु
बुवते वेदान्तवाक्यजनितमहं ब्रहोति विज्ञानं संसर्गात्मकावादात्मवस्तुयायात्म्यावगाद्येव न भवति किंतद्येतदेव
गङ्गास्रोतोवत्सततमभ्यस्यतोऽन्यदेवावाक्यार्थात्मकं विज्ञानान्तरमुत्पद्यते तदेवाशेषाज्ञानतिमिरोत्सारीति “विज्ञाय प्रज्ञां कुर्वीत ब्राह्मण’ इति श्रुतेरिति । अस्य पक्षइयस्य निवृत्तय इदमभिधीयते ।
 सकृत्प्रवृत्त्या मृद्भाति क्रियाकारकरूपभृत् ।
 अज्ञानमागमज्ञानं साङ्गल्यं नारूयतोऽनयोः ॥ ६७ ॥


 पूर्वे ज्ञानस्य स्वोत्पत्तिमात्रेणाज्ञाननिवर्तकत्वात्कर्मभिः समुच्चयोऽनुपपन्न इत्युक्तं तद्युतं वाक्यजन्यज्ञानोत्तरकालीनभावनोत्कर्षाद्भावनाजन्यसाक्षात्कारलक्षणज्ञानान्तरेणैवाज्ञानस्य निवृत्तेइनाभ्यासदशायां ज्ञानस्य कर्मणा समुच्चयोपपत्तेरित्येकदेशिानां मतमुत्थाप्य निराकरोति एवमुपसंहृत इत्यादिना । देवो भूत्वा भावनोपचयाद्दिवभावं साक्षात्कृत्य पतिते देह उपास्यदेवताभावं प्राप्तोतीत्यर्थः । विज्ञायशब्देन संस्पृष्टरूपं ब्रह्मावगम्य प्रज्ञां साक्षात्कारलक्षणामसंसर्गात्मिकां कुवीत सन्तताभ्यासबलात्साधयेदिति यावत् । इति पूर्ववादिनोऽभिप्रेता व्याख्या । सकृत्प्रवृत्त्येति । भवदभिमताया भावनायाश्चितैकाग्यहेतुतयासम्भावनाविपरीतभावनात्मकविक्षेपलक्षणप्रतिबन्धनिरासेन ज्ञानोत्पतावेवोपक्षीणत्वादुत्पन्नमात्रमागमिकं ज्ञानं सकार्यमज्ञानं तदैव निवत्र्तयतीति न शानकर्मणोः समुच्चयावसर इति भावः । “विज्ञाय प्रशां