पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/४३

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


४१ एवं तावदनानावे ब्रह्मणि ज्ञानकर्मणोः समुच्चयो नि राकृतः । अथाधुना पक्षान्तराभ्युपगमेनापि प्रत्यवस्याने पूर्ववदनाश्वासो यथा तथाभिधीयते अनुत्सारितनानाचं ब्रह्म यस्यापि वादिनः । तन्मतेनापि दुःसाध्यो ज्ञानकर्मसमुच्चयः ॥ ६ ॥ तस्य विभागोक्तिर्दूषणविभागप्रज्ञाये ब्रह्मात्मा वा भवेत्तस्य यदि वानात्मरूपकम् । आत्मानाभिर्भवेन्मोहादितरस्याप्यनात्मनः ॥ ६९ ॥ कुर्वीत' वेदान्तवाक्यप्रतिपाद्य ब्रह्मोति विज्ञाय प्रज्ञामपरोक्षब्रह्मविज्ञा नमसम्भावनाविपरीतभावनानिराकरणमुखेन वाक्यादेव कुर्यात् । तत्र विध्यसम्भवात्तत्साधनं मननादिकमसम्भावनाविपरीतभावनानिरास कारणं कुर्यादित्यर्थः ॥ ६७ ॥ नानारसत्वशशून्यमद्वयं ब्रहोत्यभ्युपगम्य तज्ज्ञानस्य कर्मणा समुच्चयो निराकृतः संप्रति द्वैताद्वैतं ब्रहोत्यभ्युपगमेऽपि न समुच्चय इत्याह एवं तावदिति । अनुत्सारितेति । सामान्यविशेषात्मना भिन्नाभिन्न ब्रह्नोति यस्य मतं तन्मतेऽपि दुःसंपादः समुच्चय इत्यर्थः ॥ ६८ ॥ भेदाभेदपक्षे जीवपरमात्मनोः संसारदशायामप्यभेदं केचिदिच्छ न्ति । केचित्तु संसारदशायां भेद् एव मुक्तिदशायामेवाभेद इति म न्यन्ते । तेन मतद्वयसम्भवाद्विकल्प्यत इत्याह तस्य विभागोक्तिरिति। वि भागोक्तिर्विकल्पोक्तिः क्रियत इति शेषः । तत्राद्य दूषयति आत्माना प्तिरिति । ब्रह्मणः प्रत्यगात्मरूपत्वाङ्गीकारे ब्रह्मानाप्तिमहमात्रादेव भ वेत् । आत्मत्वादेव नित्यप्राप्तत्वान्मोहनिवर्त्तकं च ज्ञानमेवेति कर्मणो वैयथ्र्यमित्यर्थः । द्वितीयं दृषयति इतरस्येति । इतरस्य स्वत एव व्यति रिक्तस्य ब्रह्मणोऽनात्मत्वादनातिरेव न तु कदाचिदप्याप्तिः स्यात्तत्र किं कर्मणा झानेन वेत्यर्थः ॥ ६९ ॥