नित्यकर्मानुष्ठानाद्धमोत्पतिर्धमोत्पतेः पापहानिस्ततश्चितशड़िस्ततः संसारयायात्स्यावबोधस्ततो वैराग्यं ततो
मुमुक्षुत्व ततस्तदुपायपयषण ततः सवकमतत्साधनसन्यासस्ततो योगाभ्यासस्ततश्चित्तस्य प्रत्यक्प्रवणता तास्तत्वमस्यादिवाक्यार्थपरिज्ञानं ततोऽविद्योच्छेदस्ततश्र
स्वा मत्येवावस्यानं “ब्रडैव सन् ब्रह्माप्येति ” *विमतश्र विमञ्यत’ इति ।
पारम्पर्येण कमैवं स्यादविद्यानिवृत्तये ।
ज्ञानवनाविरोधिावाकर्माविद्यां निरस्यति ॥ ५२ ॥
न च कर्मणः कार्यमण्वपि मुक्तौ सम्भाव्यते नापि मुक्तौ
यत्सम्भवति तत्कमॉपेक्षते । तदुच्यते ।
ढस्य योगमनुष्टातुं समर्थस्य शमः कारणमुपशमः संन्यासः कारणम् । योगावाप्तौ च साधनमिति वदन्परम्परयैव कर्मणां मोक्षोपयोगं दर्शयतीलयर्थः ॥ ५१ ॥
कर्मणां पारम्पर्येण मुक्तावुपयोगो दशितस्तदेव पारम्पर्यमिदानीं दर्शयति नित्यकर्मेति । धर्मोत्पत्तिरदृष्टोत्पत्तिः । पापहानिः “धर्मेण पापमपनुदती'ति श्रुतेः । चित्तशुद्धिश्चित्तस्य विवेकक्षमता । याथात्म्यावबोधोऽनित्यत्वादिदोषद्दर्शनम् । योगाभ्यासः श्रवणमनननिदिध्यासनादीनामनुष्ठानम् । अत्र चित्तस्य प्रत्यक्प्रवणता नाम प्रत्यगात्मन्येवाप्रयत्रेनावस्थानम्। कर्मसंन्यासस्य हेतुत्वेन पूर्वोदिता तु प्रत्यक्प्रवणता प्रत्यगात्मविचिदिषामात्ररूपेति न पूर्वापरविरोधः । वाक्यार्थपरिज्ञानं साक्षात्कारलक्षणम् । स्वात्मन्यवस्थानमित्यत्र प्रमाणमाह ब्रहौवेति । ननु कर्म साक्षादेवाविद्यानिवंत्र्तकं किं न स्यादित्यत आह ज्ञानवदिति ॥ ५२ ॥
कर्मणः साक्षान्मोक्षसाधनत्वाभावे युक्तयन्तरमाह न चेति । कर्मफल-