पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/३५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


प्रयमोऽध्यायः । अतःपरमवसिताधिकाराणि कर्माणि प्रत्यक्प्रवणत्वसूनी कृतसम्प्रतिकानि चरितार्थानि सन्ति । प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुञ्चितः । कृतार्यान्यस्तमायान्ति प्रावृडन्ते घना इव ॥ ४९ ॥ यतो नित्यकर्मानुष्ठानस्यैष महिमा । तस्मान्मुमुक्षुभिः कार्यमात्मज्ञानाभिलाषिभिः । नित्यं नैमितिकं कर्म सदैवात्मविशुद्धये ॥ ५० ॥ यथोतेऽर्थे सर्वज्ञवचनं प्रमाणम् । “आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तयैव शम” एवेति च स्मृतिः ॥ ५१ ॥ एवं शुद्धान्तःकरणस्योत्पन्नवैराग्यस्य सर्वकर्मसंन्यासेऽधिकार इत्य भिप्रेत्याह अतःपरमिति । “यद्याद्धि कुरुते जन्तुस्तत्तत्कामस्य चेष्टि तमि'ति वचनात्कर्मप्रवृत्तिनिमित्तस्य कामस्य निवृत्तत्वात्कर्माण्यव सिताधिकाराण्युच्यन्ते । प्रत्यक्प्रवणत्वसूनौ कृतसंप्रतिकानि संप्रति नर्नाम स्वव्यापाराणां पुत्रे सम्प्रदानं समर्पणमत एव चरितार्थानि कृतप्र योजनान्यस्तमायान्तीति श्लोकगतेन पदेन सम्बन्धः । प्रत्यगिति । कमर्माणि बुद्धेः शुद्धयुत्पादनद्वारेण तस्याः प्रलयकप्रवणतामुत्पाद्य कृतार्थानि सन्त्य स्तमायान्तीत्यर्थः ॥ ४९ ॥ एवं कर्मणामन्तःकरणशुद्धिद्वारेण प्रत्यक्प्रवणताहेतुत्वादस्येव मु क्तावुपयोग इत्युपसंहरति यत इति ॥ ५० ॥ कर्मणां मुक्ताचारादुपकारकत्वं न तु साक्षादित्युक्तम् । तस्मिन्नर्थे भ गवद्वचनं प्रमाणमित्याह यथोक्त इति । आरुरुक्षोः सम्यग्दर्शनसाधनं ध्यानयोगमारोढुमिच्छोस्तदनुष्ठानासमर्थस्य कर्म नित्यं नैमित्तिवकं रणं तदनुष्ठानसामथ्र्योत्पादकमुच्यते श्रुतिभिः स्मृतिभिश्ध । योगमारू वा