यस्माद्रजस्तमोमलोपसंस्पृष्टमेव चित्तं कामबडिशेनाकृष्य
विषयदुरन्तसूनास्थानेषु निक्षिप्यते तस्मान्नित्यनैमितिककर्मानुष्ठानपरिमार्जनेनापविडरजस्तमोमलं प्रसन्नमनाकलं सम्मार्जितस्फटिकशिलाकल्पं बाह्यविषयहेतुकेन च
रागद्वेषात्मकेनातिग्रहबडिशेनानाकृष्यमाणं विधूताशेषकल्मषं प्रत्यङात्रप्रवणं चित्तदर्पणमवतिष्ठते । अत इदमभिधीयते ।
व्युत्थिताशेषकामेभ्यो यदा धीरवतिष्ठते ।
तदैव प्रत्यगात्मानं स्वयमेवाविविक्षति ॥ ४७ ॥
पि केन द्वारेण तेपां मोक्षहेतुत्वमित्यत आाह एवं नित्येति । चित्तशुद्धिवैराग्योत्पादनद्वारेणेत्यर्थः । शुध्यमानं त्विति स्पष्टम् ॥ ४७ ॥
ननु किमत्र वैराग्येण तस्य मोक्षसाधनत्वेन तत्सहकारित्वेन वा श्रवणादित्याशङ्कय रागस्य मोक्षोपायप्रवृत्तिप्रतिबन्धकत्वात्तत्प्रतिबन्धकरागाभावतया वैराग्यस्य मोक्षप्रवृत्तिहेतुतामुपपत्तिपुरःसरं दर्शयति यस्मादित्यादिना । रजस्तमसी एव हेयत्वान्मलवन्मलं तेन मलेनोपसंसृष्टमपहृतं कलुषीकृतमन्तःकरणं कामाख्येन बडिशवदाकर्षकत्वाइडिशेनाकृष्य विपयप्रवणं विधाय विषयाः शब्दाद्य एव दुरन्तानि सूनास्थानानि विपयपराणां पुनःपुनर्जन्ममरणादिहेतुत्वात्तेषु मत्स्यादिवन्निक्षिप्यते यस्मात्तस्मान्नित्यानुष्टानात्तथाभूतप्रतिबन्धक्षये यथोक्तविशेपणं चित्तदर्पणं प्रत्यङात्रप्रवणमवातिष्ठत इत्यन्वयः । अपविद्धरजस्तमोमलं व्यावृत्तरजस्तमोमलमत एव प्रसन्नमनाकुलमचलम् । प्रसन्नतायां दृष्टान्तमाह सम्मार्जितेति । अत एव बाह्याः शब्दादयो विषयास्तद्धेतुकौ यौ रागद्वेषौ तहळुक्ष्णेनातिग्रहबडिशेन विषयान्प्रत्यनाकृष्यमाणम् । अत्र च सकामेनातिग्रहेण गृहीत इति कामस्यातिग्रहत्ववचनादस्य दोषोपलक्षणार्थत्वाद्रागद्वेषयोरतिग्रहात्मकत्वम् । तत्रानाकृष्यमाणत्वे हेतुर्विधूतेति । आविविक्षत्याभिमुख्येन प्रवेष्टुमिच्छतीत्यर्थः ॥४८॥