एष संसारपन्या व्याख्यातोऽयेदानीं तब्द्यावृत्तये कर्माण्यारादुपकारकत्वेन यथा मोक्षहेतुतां प्रतिपद्यन्ते तयाभिधीयते ।
तस्यैवं दुःखतामस्य कथञ्चित्पुण्यशीलनात् ।
नियेहाक्षालितधियो वैराग्यं जायते हृदि ॥ ४५ ॥
कीदृग्वैराग्यमुत्पद्यत इति । उच्यते ।
नरकान्वीर्यथास्याभूतया काम्यपफलादपि ।
यथार्थदर्शनातस्मान्नित्यं कर्म चिकीर्षति ॥ ४६ ॥
एवं नित्यनैमितिककर्मानुष्ठानेन ।
शुध्यमानं तु तचितमीश्वरार्पितकर्मभिः ।
वैराग्यं ब्रह्मलोकादौ व्यनतयथ सुनिर्मलम् ॥ ४७ ॥
एवं तावत्कामस्य संसारकारणत्वमुक्तं तस्य च तन्नाशोऽज्ञानहानत इति शानादशाननिवृत्या निवृत्तिरप्युक्ता । का त्वसौ श्रुतिरितिचेद्यदा सर्वेति कामबन्धनमेवेदमिति च तत्र सर्वथा कर्मणामनुपयोगशङ्कायामुपयोगप्रकारप्रदर्शनायोत्तरग्रन्थ इत्याह एष संसारेति । तस्यैवमिति । पुण्यशीलस्य दुर्लभतां दर्शयति कथञ्चिदिति । काम्ये पुण्येऽप्यानुषङ्गिकी शुद्धिरस्ति ततो नित्यानुष्ठाने बुद्धिरुत्पद्यते । एवं नित्येहया नित्यकर्माए नुष्ठानेन विशुद्धबुद्धेः काम्यकर्मफलेषु वैराग्यं जायत इत्यर्थः ॥ ४५ ॥
कीदृग्वैराग्यमुत्पद्यत इत्युच्यते नरकाद्भीरिति । ननु प्रतिषिद्धकर्मफलान्नरकादिव किमिति काम्यकर्मफलात्स्वर्गात्सुखरूपाद्भयं जायत इत्यत आह यथार्थेति । काम्यकर्मफलस्यानित्यत्वसातिशयत्वदुःखबहुलत्वादिदोषदर्शनात्काम्यकर्मनिमित्तमपि भयं जायत इत्यर्थः । यस्माद्भयं जातं तस्मात्काम्यकर्मभ्यो व्यावृत्तः पुनस्तदेव नित्यं कर्म तात्पर्येणानुष्ठातुमिच्छतीत्यर्थः ॥ ४६ ॥
भवत्वेवं काम्यकर्मपरित्यागेन नित्यनैमित्तककर्मणामेवानुष्ठानं तथा-