पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३०
नैष्कर्म्यसिद्धिश्चन्द्रिकासहिता

 एवं चङ्कम्यमाणोऽयमविद्याकामकर्मभिः।
 पाशितो जायते कामी म्रियते चासुखावृतः ॥ ४२
यथोतेऽर्य आदरविधानाय प्रमाणोपन्यासः ।
 श्रुतिश्येमं जगादार्थ कामस्य विनिवृत्तये ।
 तन्मूला संस्मृतिर्यस्मातन्नाशोऽज्ञानहानतः ॥ ४३
का त्वसौ श्रुतिरिति चेत् ।
 “यदा सर्वे प्रमुच्यन्त” “इति न्वि'ति च वाजिनः
 कामबन्धनमेवेदं व्यासोऽप्याह पदे पदे ॥ ४४ ॥


शीलं यासां योनीनां तास्तथोक्तास्ता एव विचित्रा देवतिर्यङ्करादिर्भ देन। चङ्कमणे दृष्टान्तमाह चण्डेति । उत्पिञ्जलक आकुलः । चण्डश्च सावुत्पिञ्जलकश्चेति चण्डोत्पिञ्जलकः । श्वसनो वायुस्तस्य वेगेनाि हतो योऽम्भोनिधिस्तन्मध्यवर्त्तित यच्छुष्कालाबु तद्यथातिशयेन भ्रमि तद्वच्छुभमशुभं तदुभयव्यामिश्र च यत्कर्म स एव वायुस्तेन समीरि प्रेरितः । न कापि निवृत्तिमुपलभमानस्तिष्ठतीति पाशितो बद्धः का जायत इति ॥ ४२ ॥

 कामस्य प्राधान्येन संसारकारणत्वमुक्तम् । तत्र श्रुतिस्मृती प्रम णमिति दर्शयितुमाह यथोक्त इति । यस्मात्काममूला संस्मृतिस्तस्मात्तः विनिवृत्तये श्रुतिर्जगादेत्यन्वयः । कथं तर्हि तन्निवृत्तिरित्यत आह ऋाश इति ॥ ४३ ॥

 *यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मत्यं ऽमृतो भवत्यत्र ब्रह्म समश्रुते” “इति नु कामयमानो योऽकामो निष्का आत्मकाम आप्तकामो न तस्य प्राणा उत्क्रामन्ति' *अत्रैव समवल यन्ते” “ब्रहौव सन्ब्रह्माप्येती'ति वाजसनेयिन आहुरित्यन्वयः । “क मबन्धनमेवेदं नान्यदस्तीह बन्धनम् । कामबन्धनंमुक्तो हि नेह भूयं ऽभिजायत” इत्यादिनापि कामस्य संसारकारणत्वं स्मर्यत इत्यर्थः ॥४