पृष्ठम्:नैष्कर्म्यसिद्धिः.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५
प्रथमोऽध्यायः ।


उत्पाद्यमाप्यं संस्कायै विकायै च क्रियाफलम् ।
नैवं मुक्तिर्यतस्तस्मात्कर्म तस्या न साधनम् ॥ ५३ ॥
एवं तावत्केवलं कर्म साक्षादविद्यापनुतये न पर्याप्तमिति प्रपञ्चितम् । मुक्तौ च मुमुक्षुज्ञानता
भाव्यानुरोधेन सर्वप्रकारस्यापि कर्मणोऽसम्भव उक्तो
“हितं सम्प्रेप्सतामि”त्यादिना । यादृशश्चारादुपकारकचेन ज्ञानोत्पत्तौ कर्मणां समुच्चयः सम्भवति तथाप्रतिपादितम् । अविद्योच्छित्तौ तु लब्धात्मस्वभावस्यात्मज्ञानयैवासाधारणं साधकतमत्वं नान्यस्य प्रधानभूतावदहेतुरित्येतदाह ।
 सन्निपत्य न च ज्ञानं कर्माज्ञानं निरस्यति ।
 साध्यसाधनभावत्वादेककालानवस्यितेः ॥ ५४ ॥


स्योत्पाद्यादेर्मुक्तावसम्भवात्सम्भवतश्ध स्वरूपेणावस्थानस्य कर्मानपेक्षत्वान्न मुक्तः कर्मसाध्यत्वमित्यर्थः ॥ ५३ ॥

 वृत्तकीर्तनपूर्वकं वर्त्तितष्यमाणग्रन्थसंदर्भस्य तात्पर्यमाह एवं तावदिति । अनित्यफलाद्विरक्तत्वं मुमुक्षुस्वभावः । ज्ञानस्य प्रमाणवस्तुपरतन्त्रतयाविद्यानिवत्र्तकत्वं स्वभावः । शानाधिपयस्य चात्मनः कृतटस्थत्वेनासाध्यत्वं स्वभावः । पूर्व केवलकर्मणां मुक्तिसाधनत्वं निराकृतमिदानीं ज्ञानेनाङ्गाङ्गिभावेन समप्रधानतया वा समुचितस्य मुक्तिसाधनत्वं न सम्भवतीत्युच्यत इत्यर्थः । एवं समुदायतात्पर्थमभिधायाधुना समनन्तरश्लोकतात्पर्यमाह तत्रेति । ज्ञानं गुणभूतं कर्म प्रधानमित्येतन्पक्षनिरासायोत्तरश्लोकारम्भ इत्यर्थ । स्सन्निपत्येति । कर्मणोऽङ्गन्धेन इज्ञानं कर्म सन्निपल्य प्राण्याविद्यां न निरस्यति कुत इत्यत आह साध्यसाध-