पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
[स्कन्धः - ३
नारायणीये

 अनन्तरं नारदस्य हिरण्याक्षववसाहाय्यं दर्शयति ----

हिरण्याक्षं तावद् वरद ! भवदन्वेषणपरं
 चरन्तं सांबतें पयसि निजपङ्घापरिमिते ।
भवद्भक्तो गत्वा कपटपटुधीर्नारदमुनिः
 शनैरूचे नन्दन् दनुजमपि निन्द॑स्तव बलम् ॥ १ ॥

 हिरण्याक्षमिति । तावत् तव धरोद्धरणसमकालमेव संवर्तः प्रलयः, तत्सम्बन्धिनि पयसि कपटपटुधी: जगदनुग्रहायाङ्गीकृतकापट्या पट्टी तन्निपुणा धीर्यस्य स तथा दनुजं हिरण्याक्षं नन्दन् प्रशंसन् तव बलमपि निन्दन् शनैः सानुनयमूचे उक्तवान् ॥ १ ॥

 श्रीनारदोक्तिमेव दर्शयति-

स मायावी विष्णुहरति भवदीयां वसुमती
 प्रभो ! कष्टं कष्टं किमिदमिति तेनाभिगदितः ।
नदन क्कासौ क्कासाविति स मुनिना दर्शितपथो
 भवन्तं संप्रापद् धरणिधरमुयन्तमुदकात् ॥ २ ॥

 स इति । स विष्णु: मायावी भवद्भिया वराहव्याजेनात्मानमाच्छाद्य भवदीयां भवता ब्रह्मणोऽपहृत्य रसातले निवेशितां, वसुमतीमिति । अनेनोपेक्षानौचित्यं द्योतयति । प्रभो! तन्निवारणसमर्थ ! कष्टं कष्टं किमिदम् अहो मन्दा अपि प्रभून् धिक्क्रुर्वन्ति, प्रभवश्चोपेक्षापराः कोऽयं क्रम इति तेनामिगदितः प्रोत्साहितः स नदन् सिंहनादं कुर्वन् क्कासौ क्वासाविति सामिनिवेशं पृष्टेन मुनिना इत इत इति दर्शितः पन्था यस्य सः धरणिधरम् उदकादुद्यन्तं भवन्तं संप्रापत् संप्राप्तवान् ॥ २ ॥

 दर्शनसमनन्तरमेव स भगवन्तमधिक्षिप्तवानित्याह-

अहो आरण्योऽयं मृग इति हसन्तं बहुतरै-
 र्दुरुक्तैर्विध्यन्तं दितिसुतमवज्ञाय भगवन् ! ।
महीं दृष्ट्वा दंष्ट्राशिरसि चकितां स्वेन महसा
 पयोधावाधाय प्रसभमुदयुङ्क्था मृधविधौ ॥ ३ ॥