अहो इति । अहो कष्टमेतदनेन मुनिना मम प्रतियोद्घृत्वेन प्रदर्शितोऽयमारण्यः अरण्यनिवासी मृगः सूकर इति हसन्तम् एवमादिवचनैः परिहसन्तं पुनरपि बहुतरैर्दुरुक्तैः रे सुराधम ! मायामात्रप्रभाव ! अनया गदया शीर्णशिरस्कं त्वां निहन्मि, इत्यादिभिर्दुर्वागिषुभिर्विध्यन्तं ताडयन्तं दितिसुतं दितेः प्रियं पुत्रं न तु काश्यपस्य हे भगवन् ! त्वमप्यवज्ञायाधिक्षिप्य दंष्ट्राशिरसि चकितां दुःस्थां महीं दृष्ट्वा मत्प्रियस्यानेन सङ्गरे सति निमज्जेयमहमिति विचिन्त्य भीतां स्वेन अनन्यसाधारणेन महसा योगैश्वर्येण पयोधौ अगाधस्य सिन्धुजलस्योपरि आधाय विन्यस्यावनिमज्जनाभावाय चराचरसन्तानाय च तस्यां स्ववीर्यमाधायेत्यर्थः । प्रसभं बलात्कारेण मृधविधौ युद्धकर्माणि उदयुङ्क्थाः सन्नाहं चकृषे ॥ ३ ॥
गदापाणौ दैत्ये स्वमपि हि गृहीतोन्नतगदो |
गदापाणाविति । दैत्ये गढापाणौ युयुत्सति सति, हि हेतौ, यस्मादेवं तस्मात् त्वमपि गृहीता स्मृतिमात्र एव कराम्बुजं प्राप्ता उन्नता महती गदा कौमोदकी येन तथाभूतः सन् नियुद्धेन द्वन्द्वयुद्धेन क्रीडन् शनैश्शनैः । कीदृशेन नियुद्धेन, घटघटरवैरितरेतरगदाभिघातसमुत्थैरुद्घष्टमुच्चैः शब्दायमानं वियद् अण्डकटाहकुहरं यस्मिस्तद् घटघटरवोद्घुष्टवियत्, तेन । रणालोकौत्सुक्याद् भगवतः श्रीवराहमूर्तेः पराक्रमदर्शन कौतुकातिशयेन सुराणां सङ्घे मिलति[१] ससम्मर्दं स्थितवति सति सन्ध्यातः प्रथमं पूर्व द्रुततरं यावत् सन्ध्यां स्वकालं प्राप्यासौ न वर्धेत तावद् द्रुततरममुं दैत्यं निरुन्ध्या निगृहाण इति धात्रा जगदिषे ब्रह्मा भवन्तं विज्ञापितवानित्यर्थः ॥ ४ ॥
गदोन्मर्दे तस्मिंस्तव खलु गदायां दितिभुवो |
- ↑ 'ति अहमहमिकया स' क. पाठः.