पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७८
[स्कन्धः - ३
नारायणीये

 गदोन्मर्द इति । तस्मिन् गदोन्मर्दे गदायुद्धे तव खलु गदायां तव हस्तस्थितायामेव दितिभुवो हिरण्याक्षस्य गदाघाताद् गदाप्रहारेण झटिति भूमौ पतितायाम् । अहहेति खेदे, अथवाद्भुते । मयि संरम्भयोगेनापि समाधिनैरन्तर्ये कुर्वतो मद्दासस्य सकृदपि समीहितं साधयामीति भगवता स्वयमेव पातिता गदा, अहो भवतो भक्तवात्सल्यमिति भावः । हे विभो ! अत एव त्वं मृदुस्मेरास्यः न गदापातात् खिन्नोऽभूः, किन्तु मृदुमन्दस्मितविकसितमुखाम्बुजः सन् दनुजकुलानामसुरसमूहानां निर्मूलनेन सुदर्शनमिति प्रसिद्धं महाचक्रं स्मृत्वा करभुवि स्मृतमात्र एव सम्प्राप्तं दधानो रुरुचिषे शत्रोः कण्ठदेशं लक्षीकृत्योन्नमितदक्षिणकरेण सुदर्शनं गृह्णन् त्वम् । जाज्वल्यमानकालचक्रतेजसा वैष्णवेन तेजसा च सञ्जातोत्कर्षं तव रूपं सकलजनचक्षुरिन्द्रियगोचरतामगमदित्यर्थः ॥ ५ ॥

ततः शूलं कालप्रतिमरुषि दैत्ये विसृजति
 त्वयिच्छिन्दत्येनत् करकलित चक्रमहरणात् ।
समारुष्टो पुष्ट्या स खलु वितुदंस्त्वां समतनोद्
 गलन्माये मायास्त्वयि किल जगन्मोहनकरीः ॥ ६ ॥

 तत इति । यस्मात् तव करकमलाद् गदापातेऽप्यव्याकुलहृदयता वैष्णवतेजःप्रकाशश्च तत इत्यर्थः । कालप्रतिमरुषि जगत्संहारकारिकालाग्निरुद्रसदृशकोपे दैत्ये कर्तरि शूलं विसृजति प्रयोक्तुमुद्यच्छति सत्येव त्वयि एनत् त्रिशूलं करे कलितस्य चक्रस्य सुदर्शनस्य प्रहरणात् छिन्दति द्विधाकुर्वति सति स खलुं दैत्यः समारुष्टः पूर्वस्मादप्यतिकुपितो मुष्ट्या त्वां वितुदन् मुष्टीकृताभ्यामुभाभ्यां कराभ्यामुरसि दृढं प्रहरन् त्वयि जगन्मोहनकरीः त्वदितरजनसम्मोहसम्पादयित्रीः मायाः समतनोत् प्रायुङ्क्त्त । गलन्माय इति एवंविधा माया गलन्त्यो दूरस्था भवन्ति यस्मात् स तथा, अथवेश्वरस्य स्वरूपभूता विगलन्ती पृथगिबात्मानं प्रकाशयन्ती जगत्सृष्ट्यादिकारिणी यस्मात् तादृशे त्वयीत्यर्थः ॥ ६ ॥

 गलन्मायत्वमेव दर्शयति -

भवचक्रज्योतिष्कणलवनिपातेन विधुते
 ततो मायाचक्रे विततघनरोपान्धमनसम् ।