अनन्तरं नारदस्य हिरण्याक्षववसाहाय्यं दर्शयति ----
हिरण्याक्षं तावद् वरद ! भवदन्वेषणपरं |
हिरण्याक्षमिति । तावत् तव धरोद्धरणसमकालमेव संवर्तः प्रलयः, तत्सम्बन्धिनि पयसि कपटपटुधी: जगदनुग्रहायाङ्गीकृतकापट्या पट्टी तन्निपुणा धीर्यस्य स तथा दनुजं हिरण्याक्षं नन्दन् प्रशंसन् तव बलमपि निन्दन् शनैः सानुनयमूचे उक्तवान् ॥ १ ॥
श्रीनारदोक्तिमेव दर्शयति-
स मायावी विष्णुहरति भवदीयां वसुमती |
स इति । स विष्णु: मायावी भवद्भिया वराहव्याजेनात्मानमाच्छाद्य भवदीयां भवता ब्रह्मणोऽपहृत्य रसातले निवेशितां, वसुमतीमिति । अनेनोपेक्षानौचित्यं द्योतयति । प्रभो! तन्निवारणसमर्थ ! कष्टं कष्टं किमिदम् अहो मन्दा अपि प्रभून् धिक्क्रुर्वन्ति, प्रभवश्चोपेक्षापराः कोऽयं क्रम इति तेनामिगदितः प्रोत्साहितः स नदन् सिंहनादं कुर्वन् क्कासौ क्वासाविति सामिनिवेशं पृष्टेन मुनिना इत इत इति दर्शितः पन्था यस्य सः धरणिधरम् उदकादुद्यन्तं भवन्तं संप्रापत् संप्राप्तवान् ॥ २ ॥
दर्शनसमनन्तरमेव स भगवन्तमधिक्षिप्तवानित्याह-
अहो आरण्योऽयं मृग इति हसन्तं बहुतरै- |