अन्तर्जलमिति । तदनु जलप्रवेशानन्तरं त्वं सङ्कुलनक्रचक्रं भ्राम्यग्राहसमूहं भ्राम्यत्तिमिङ्गिलकुलं भ्राम्यन्त इतस्ततः सञ्चरन्तः तिमिझिला अनेकयोजनायामविस्तारा महामत्स्याः, तेषां कुलं समूहो यस्मिन् । क्षुब्धजलत्वात् कलुषा आविला ऊर्मिमालाः तरङ्गसमूहा यस्मिस्तद् अन्तर्जलं जलमध्यम् आविश्य भीषणरवेण रसातलस्थान् जनान् आ समन्तात् कम्पयन् वसुमतीं निजप्रियां भूमिम् अगवेषयः अन्वेषणमकरोरित्यर्थः ॥ ८ ॥
दृष्ट्वाथ दैत्यहतकेन रसातलान्ते |
दृष्ट्वेति । अथ अनन्तरं दैत्यहतकेन असुराधमेन हिरण्याक्षेण रसातलान्ते संवेशितां विन्यस्तां वसुधां भूमिं हे विभो ! कूटकिटिर्मायावराहवपुस्त्वम् आपातुकान् आगच्छतः सुरारिखेटान् असुरापशदान् अविगणय्य तृणीकृत्य दंष्ट्राङ्कुरेण दशनाग्रेण सलीलं यथा भवति तथा अदधाः उद्धृतवानसि ॥ ९ ॥
अभ्युद्धरन्नथ धरां दशनाग्रलग्न- |
अभ्युद्धरन्निति । अथ धरामभ्युद्धरन् दशनाग्रलग्नमुस्ताङ्कुराङ्कित इव यथान्यो वराहः पल्वले मुस्ताक्षतिं कुर्वन् दशनाग्रे मुस्ताङ्कुरेणाङ्कितो भवति, तद्वद् दर्शनीयो भवन् अधिकपीवरात्मा अतिपीनकायः उद्भूतं संक्षुब्धं घोरं भयङ्करं सलिलं यस्मिन्, तस्माजलधेरुदञ्चन्नुन्मज्जन् हे क्रीडावराहवपुः ! क्रीडार्थं घृतवराहतनो ! हे ईश्वर ! त्वं रोगात् पाहि ॥ १० ॥
इति वराहावतार-भूम्युद्धरणवर्णनं द्वादशं दशकम् ।