पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७४
[स्कन्धः - ३
नारायणीये

विचिन्तयति सति सद्यः शैलमात्रः शैलद्वयसवपुर्भवन् त्वं घोरघोरम् अतिशयेन भयङ्करं यथा भवति तथा जगर्जिथ किल ॥ ५ ॥

तं ते निनादमुपकर्ण्य जनस्तपःस्था:
 सत्यस्थिताश्च मुनयो नुनुवुर्भवन्तम् ।
तत्स्तोत्रहर्षुलमनाः परिणद्य भूय-
 स्तोयाशयं विपुलमूर्तिरवातरस्त्वम् ॥ ६ ॥

 तमिति । ते तव तं निनादं गर्जितं जनस्तपःस्थाः जनस्तपोलोकस्था अपीत्यर्थः । सत्यस्थिताः सत्यलोकस्था नुनुवुः तुष्टुवुः । तत्स्तोत्रेण तेन स्तोत्रेण हर्षुलमनाः प्रसन्नचेताः सन् विपुलमूर्तिः पूर्वस्मादतिविस्तृतकायः सन् त्वं भूयः पुनरपि तेषां प्रसादाय परिणद्य गर्जन् तोयाशयं प्रलयाब्धिमवातरः अवगाहसे स्म ॥

ऊर्ध्वप्रसारिपरिधूम्रविधूतरोमा
 प्रोत्क्षिप्तवालधिरवाङ्मुखघोरघोणः ।
तूर्णमदीर्णजलदः परिघूर्णदक्ष्णा
 स्तोतन मुनीञ्छिशिरयन्नवतेरिथ त्वम् ॥ ७ ॥

 ऊर्ध्वेति । ऊर्ध्वं प्रसरणशीलानि परिधूम्राणि कृष्णलोहितानि विधूतानि कम्पितानि रोमाणि यस्य, स तथा । उत्क्षिप्तवालधि: उन्नीतपुच्छः अवाङ्मुखा अधःकृता घोरा भयङ्करा[१]कारा घोणा नासिका यस्य, स तथा । तूर्णम् अतिलघु प्रदीर्णाः शकलीकृता जलदा येन । परिघूर्णता अक्ष्णा कम्पितपिङ्गलितोच्छ्रनाक्षिद्वयेन प्रकटितानुकम्पेन स्तोतॄन् मुनीन् शिशिरयन् आनन्दयन् त्वमवतेरिथ अवजगाहिषे ॥ ७ ॥

अन्तर्जलं तदनु सङ्कुलनक्रचक्रं
 भ्राम्यत्तिमिङ्गिलकुलं कलुषोर्मिमालम् ।
आविश्य भीषणरवेण रसातलस्था-
 नाकम्पयन् वसुमतीमगवेषयस्त्वम् ॥ ८ ॥


  1. 'रा घो' क. पाठः.