पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १२]
७३
वराहावतारवर्णनम् ।

इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य
 नासापुटात् समभवः शिशुकोलरूपी ॥ ३ ॥

 हाहेति । हे विभो ! हाहा कष्टं जातम् । अहं पुरस्ताद् जनसर्गात् प्रागेव पृथिवीनिवेशनाय जलं न्यपिबं पीतवानस्मि । अद्यापि तुच्छीकृते जले मही मज्जति । अहं भवता सर्गे योजितः सन्नपि किं करोमि । अस्मिन् कर्मण्यस्माकं त्वमेव शरणम् । इत्थं त्वदङ्घ्रियुगलं शरणं यतः प्राप्नुवतः अस्य ब्रह्मणः नासापुटाद् नासिकोदरतः शिशुकोलरूपी वराहतोकरूपं बिभ्रत् समभवः अवतीर्णोऽभूरित्यर्थः ॥ ३ ॥

अङ्गुष्ठमात्रव पुरुत्पतितः पुरस्ताद्
 भूयोऽथ कुम्भिसदृशः समजृम्भथास्त्वम् ।
अभ्रे तथाविधमुदीक्ष्य भवन्तमुच्चै-
 र्विस्मेरतां विधिरगात् सह मृनुभिः स्वैः ॥ ४ ॥

 अङ्गुष्टेति । त्वं पुरस्तात् पूर्वं नासापुटाद् अङ्गुष्ठमात्रवपुः अङ्गुष्ठ[१]मात्रपरिमितशरीरः सन् उत्पतितः । अथ अनन्तरं भूयः पुनश्च कुम्भिसदृशो गजमात्रः समजृम्भथाः ववृधिषे । तथाविधं क्षणेन वर्धिष्णुम् अभ्रे मेघमार्गे उच्चैः उन्नतमुदीक्ष्य मुखान्युन्नमय्य दृष्ट्वा विधि: ब्रह्मा विस्मेरतां विस्मितत्वम् अगात् प्राप । सह सूनुभिः स्वैरिति । सूनवो मरीच्यादयः, तेऽपि विस्मिता बभूवुरित्यर्थः ॥

कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे
 [२]घोणापुटात् किमु भवेदजितस्य माया ।
इत्थं विचिन्तयति धातरि शैलमात्रः
 सद्यो भवन् किल जगर्जिथ घोरघोरम् ॥ ५ ॥

 कोऽसाविति । अचिन्त्यमहिमा अपरिच्छेद्यशरीरमहत्त्वः अप्रमेयप्रभावो वा किटि: सूकरो मे घोणापुटाद् नासापुटाद् उत्थित उत्पन्नः | अजितस्य विष्णोर्माया किमु भवेत् स एव मायया सूकरमूर्तिरवतीर्णः किमु भवेत् । धातरि इत्थं


  1. 'ष्ठाग्रप' ख. पाठ:.
  2. 'नासापु' क. पाठ:.