पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७२
[ स्कन्धः---२
नारायणाये

विशेषतो मरणदशायामित्यपि सूचितम् ॥ १० ॥

इति सनकादिवैकुण्ठप्रवेश-जयविजयशाप- हिरण्यकशिपुहिरण्याक्षोत्पत्तिवर्णनम्

एकादशं दशकम् ।


अथ वराहावतारहिरण्याक्षवधाद्यवतारयितुं मनोः प्रवृत्तिमाह -

स्वायम्भुवो मनुरथो जनसर्गशीलो
 दृष्ट्वा महीमसमये सलिले निमग्नाम् ।
स्रष्टारमाप शरणं भवदङ्घ्रिसेवा-
 तुष्टाशयं मुनिजनैः सह सत्यलोके ॥ १ ॥

 स्वायम्भुव इति । अथो प्रजासर्गे ब्रह्मणो निदेशानन्तरं जनसर्गः प्रजोत्पादनं शीलं यस्य स जनसर्गशील: असमये अनासन्नेऽपि प्रलयकाले स्रष्टारं स्वजनकं ब्रह्माणं भवदङ्घ्रिसेवया त्वत्पादाम्बुजोपासनया तुष्टाशयं सन्तुष्टमनसं मुनिजनैः सह सत्यलोके स्थितम् । मुनिजनैः सह शरणमापेति वा ॥ १ ॥

कष्टं प्रजाः सृजति मय्यवनी निमश्ना
 स्थानं सरोजभव! कल्पय तत् प्रजानाम् ।
इत्येवमेष कथितो मनुना स्वयम्भू-
 रम्भोरुहाक्ष! तव पादयुगं व्यचिन्तीत् ॥ २ ॥

 कष्टमिति । हे सरोजभव ! मयि प्रजाः सृजति सति अवनिः प्रलयाम्भसि निमनाभूत् कष्टम् अनाश्रयत्वान्नाह भवन्निदेशं कर्तुंं समर्थः । तत् तस्मात् प्रजानां मम च स्थानं कल्पय इत्येवं मनुना कथितो विज्ञापितः एष स्वयम्भूः हे अम्भोरुहाक्ष! तव पादयुगं व्यचिन्तीत् चिन्तयामास ॥ २ ॥

चिन्तयंस्तत्क्षणमेव हृदि दर्शनं गतं भवन्तं खिन्दानमानसश्चैवमाह—

हा हा विभो ! जलमहं न्यपिवं पुरस्ता-
 दद्यापि मज्जति मही किमहं करोमि ।