थितचित्ता बलादृषेर्वासो जग्राह । स च तया सहोपविवेशेति । अतः सन्ध्यायां समुत्पादनेन कष्टचेष्टौ क्रूरकर्माणौ यमौ युगपदेकगर्भधृतौ यमौ लोकस्य जनस्यान्यौ यमौ क्रूरकर्मणा वैवस्वताद् यमादन्यावन्तकौ (इव) बभूवतुरित्यर्थः ॥ ७ ॥
हिरण्यपूर्वः कशिपुः किलैकः परो हिरण्याक्ष इति प्रतीतः । |
हिरण्यपूर्व इति । तयोरेको ज्येष्ठो हिरण्यपूर्वः कशिपुः हिरण्यकशिपुरिति प्रतीतः प्रसिद्धः । परोऽनुजो हिरण्याक्ष इति प्रसिद्धः । तावुभौ भवान् नाथो रक्षिता यस्य स भवन्नाथः, तमशेषलोकं सर्वलोकवासिनो जनान् रुषा न्यरुन्धां पीडयामासतुः । निजवासनया आसुरेण स्वभावेन अन्धौ बिभ्रंशितपरमार्थज्ञानावित्यर्थः ॥ ८ ॥
तयोर्हिरण्याक्षमहासुरेन्द्रो रणाय धावन्ननवाप्तवैरी । |
तयोरिति । तयोर्मध्ये हिरण्याक्षमहासुरेन्द्रः त्रिलोक्यां रणाय धावन्ननवाप्तवैरी देवानपि प्रतियोगितयालभमानः भवत्प्रियां क्ष्मां भूमिं सलिले प्रलयार्णवे निमज्ज्य भूमिं कर्णाभरणीकृत्य जले निमग्नः सन् गदावान् अंसन्यस्तमहागदः गर्वाद् विनदंश्चचार ॥ ९ ॥
ततो जलेशात् सदृशं भवन्तं निशम्य बभ्राम गवेषयंस्त्वाम् । |
तत इति । ततो जानुदघ्नजले वारिनिधौ क्रीडिष्यन् विभावरीं वरुणपुरीं गत्वा तं संयुगायाह्वयत् । ततो जलेशाद् वरुणमुखाद् भवन्तं सदृशं निशम्य रणमार्गेषु भवतः सदृशः पुराणपुरुषः श्रीनारायण एक एवेति श्रुत्वायं त्वां गवेषयन् मृगयन् बभ्राम। स त्वं भक्तैकदृश्य इति । केवलं भक्तैरेव प्रह्लादनारदादिभिः दृश्यः द्रष्टुं शक्यः । ननु भक्तैकदृश्यश्चेद् भगवान्, उपरि “भवन्तं संप्रापद् ” ( द. १३. श्लो. २) इत्युक्तिरनुपपन्नेति चेद्, मैवं, हिरण्याक्षो हि रौद्ररसोपायेन भगवति मनोनिवेशनाद् भक्तः। ‘तस्मात् केनाप्युपायेन मनः कृष्णे निवेशयेद्' (श्री. भा. स्क. ७. अ. १. क्ष्लो. ३४) इति वचनात् । अतोऽस्य भगवद्दर्शनं सम्भवति ।