पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
[स्कन्धः-३
नारायणीये


तदेतदाज्ञाय भवानवाप्तः सहैव लक्ष्म्या बहिरम्बुजाक्ष ! ।
खगेश्वरांसार्पितचारुबाहुरानन्दयंस्तानभिराममूर्त्या ॥ ५॥

 तदेतदिति । तस्मिन्नवसरे अम्बुजाक्ष ! भवान् एतत् *स्वीयानां सदतिक्रमादिकमाज्ञाय विबुध्य लक्ष्म्या सहैव बहिः मणिभवनस्य बाह्याङ्कणे अवाप्तः निष्क्रान्तः खगेश्वरस्य श्रीगरुडस्यांसे समर्पितो विन्यस्तः चारुबाहुः आजानुलम्बी पीवरो भुजो यस्य किञ्चिद् वामपार्श्वलम्बितमूर्तितया श्रीगरुडस्य वामांसदेशदत्तकराम्बुज इत्यर्थः । अमिरामया अतिमनोहरया मूर्त्या तान् मुनीन्द्रान् आनन्दयन् ब्रह्मानन्दपरितृप्तानामपि शरीरमनःक्षोभं जनयन्नित्यर्थः ॥ ५ ॥

प्रसाद्य गीर्भिः स्तुवतो मुनीन्द्राननन्यनाथावथ पार्षदौ तौ ।
संरम्भयोगेन भवैस्त्रिभिर्मामुपेतमित्यात्तकृपं म्यगादीः ॥ ६ ॥

 प्रसाद्येति । ततश्च त्वं स्तुवतः त्वद्दर्शनानन्तरं मूर्ध्ना प्रणम्य स्तुवतो मुनीन्द्रान् माध्वीभिर्गीर्भिः प्रसाद्य अथ अनन्तरम् अनन्यनाथौ आत्मैकशरणौ तौ सङ्कटस्थौ स्वपार्षदौ जयविजयौ आत्तकृपम् आत्ता अङ्गीकृता कृपा यस्मिन्निति क्रियाविशेषणम् । इत्येवं न्यगादीः उक्तवान् । कथमित्याह - त्रिभिर्हिरण्यकशिपुरावणशिशुपालादिरूपैर्भवैर्जन्मभिः तत्र तत्र संरम्भयोगेन संरम्भकर्तृकेण मयि समाधिनैरन्तर्येण युवां मामुपेतं मत्समीपमागच्छतमिति न्यगादीरित्यर्थः ॥ ६ ॥

त्वदीयभृत्यौ किल काश्यपात् तौ सुरारिवीरावुदितौ दितौ द्वौ ।
सन्ध्यासमुत्पादनकष्टचेष्टौ यमौ च लोकस्य यमाविवान्यौ ॥ ७ ॥

 त्वदीयेति । तौ त्वदीयभृत्यौ भवत्पार्षदौ काश्यपान्मुनेर्दितौ तद्भार्यायां द्वौ सुरारिवीरौ हिरण्यकशिपुहिरण्याक्ष नामधेयावसुरश्रेष्ठौ उदितौ उत्पन्नौ किल । सन्ध्यासमुत्पादनकष्टचेष्टाविति दितिः किल सपत्लीनां पुत्रसमृद्ध्या सन्तप्तहृदया सती काश्यपं स्वभर्तारं सन्ध्यायामग्निमिष्ट्वाग्न्यगार आसीनं कामातुरा मयि पुत्र मुत्पादयेति प्रार्थितवती । तेन च सन्ध्येयं क्षणं प्रतिपालयेत्युक्तापि मन्मथोन्म-


 * 'स्वानाम्' इति तु सर्वत्र पठ्यते ।