पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ११]
६९
सनकादीनां वैकुण्ठप्रवेशवर्णनम् ।


 विकुण्ठनिलयं वर्णयति

मनोज्ञनैःश्रेयसकाननाद्यैरनेकवापीमणिमन्दिरैश्च ।
अनोपमं तं भवतो निकेतं मुनीश्वराः प्रापुरतीतकक्ष्याः ॥ २ ॥

 मनोज्ञेति । मनोज्ञैः सर्वर्तुशोभादिभिरतिमनोहरैः नैःश्रेयसकाननाद्यैः निःश्रेयसं कैवल्यमेव मूर्तिमत्त्वेन स्थितमिति नैःश्रेयसं नाम काननमुद्यानं तदाद्यैः अनेकैः वाप्यो दीर्घिकाः मणिमन्दिराणि रत्नमयानि भवनानि तैः अनोपमम् अनुपमं तं सर्वलोकाभिवन्द्यं भवतो निकेतं विकुण्ठनिलयं मुनीश्वराः सनकादयः अतीतकक्ष्याः परिखाप्राकारादिविभक्ताः षट् कक्ष्या अतीत्य भवननिकटस्थां सप्तमीं कक्ष्यां प्रापुरित्यर्थः ॥ २ ॥

भवद्दिदृक्षून् भवनं विविक्षून् द्वाःस्थौ जयस्तान् विजयोऽप्यरुन्धाम् ।
तेषां च चित्ते पदमाप कोपः सर्वं भवत्प्रेरणयैव भूमन् ! ॥ ३ ॥

 भवदिति । भवद्दिदृक्षून् समाधिगम्यं भवन्तं नयनगोचरीकर्तुकामान् तदर्थ भवनं भवन्मणिमन्दिरं विविक्षून प्रवेष्टुमारब्धान् तान् सनकादीन् जयो विजयश्च द्वाःस्थौ भवत्सारूप्यं प्राप्तौ द्वारपालौ अरुन्धां वेत्रेण प्रत्यषेधतां, ततस्तेषां चित्ते कोपः पदमवकाशमाप च । सर्वे सनकादीनां वैकुण्ठप्राप्तिः, जयविजययोस्तत्प्रतिकूलाचरणं, मुनीनां कोपश्चैतत् सर्वे हे भूमन् ! भवतो वराहनरसिंहश्रीरामकृष्णाद्यवतारैः क्रीडिष्यतो भवत ईश्वरस्य प्रेरणयैवेत्यर्थः ॥ ३ ॥

 एवं भगवद्दर्शनभङ्गे सति सञ्जातेषत्कोपा मुनयो द्वाःस्थौ शप्तवन्त इत्याह----

बैकुण्ठलोकानुचितप्रचेष्टौं कष्टौ युवां दैत्यगतिं भजेतम् ।
इति प्रशप्तौ भवदाश्रयौ तौ हरिस्मृतिनोंऽस्त्विति नेमतुस्तान् ॥ ४ ॥

 वैकुण्ठलोकेति । रजस्तमःक्षोभरहिते वैकुण्ठलोके अनुचिता इतः प्राक कस्याप्यनुत्पन्ना प्रारब्धा सदतिक्रमरूपा[१] चेष्टा व्यापारो ययोस्तौ कष्टौ अतिक्रूरौ युवां दैत्यगतिम् आसुरीं योनिं भजेतं प्राप्नुतम् इति मुनिभिः प्रशप्तौ तौ भवदाश्रयौ भवत्किङ्करौ जयविजयौ नः अस्माकं हरिस्मृतिरस्तु युष्मदतिक्रमेण यां यां योनिं व्रजामस्तत्र तत्रापि भगवत्स्मृतिरस्त्विति नेमतुः भुवि पतित्वा तेषां पादान् सङ्गृह्यैवं प्रार्थयन्तौ नमश्चक्रतुरित्यर्थः ॥ ४ ॥


  1. 'पा प्रचे ' ख. पाठ:.