पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
[स्कन्ध:-३]
नारायणीये


द्या इति पुराणस्यापि ग्रहणे[१] पुराणनिवहानिति तस्य पृथगुपादानं प्राधान्यख्यापनार्थम् । तदुक्तं-

"यश्चतुर्वेदविद् विप्रः पुराणं वेत्ति नार्थतः ।
तं दृष्ट्वा भयमाप्नोति वेदो मां प्रतरिष्यति ॥”

इति । किञ्चास्य पञ्चमवेदत्वात् सर्वमुखेभ्यः सृष्टत्वाच्च प्राधान्यम् । ता विद्यास्तेषु मरीच्यादिषु[२] पुत्रेषु विनिधाय सङ्क्रमय्य स ब्रह्मा सर्गवृद्धिम् अप्राप्नुवन् त्रिलोक्यां प्रजाविस्तारार्थं नित्यव्याप्तोऽपि तदलाभात् तत्र दैवविरोधमाशङ्कय तन्निवृत्तये तव पदाम्बुजमाश्रितोऽभूत् चिन्तयामासेत्यर्थः ॥ ९ ॥

जानन्नुपायमथ देहमजो विभज्य
 स्त्रीपुंसभावमभजन्मनुतद्वधूभ्याम् ।
ताभ्यां च मानुषकुलानि विवर्धयंस्त्वं
 गोविन्द ! मारुतपुराधिप ! रुन्धि रोगान् ॥ १० ॥

 जानन्निति । भवत्पदाम्बुजध्यानानुभावेन सर्गवृद्धाबुपायज्ञोऽजः ब्रह्मा स्वदेहं विभज्य द्विधा कृत्वा मनु: स्वायंभुवः तद्वधूः शतरूपा ताभ्यां स्त्रीपुंसभाव्रमभजत् स्वशरीरार्धेन शतरूपाम् अन्यार्धेन मनुं च ससर्जेत्यर्थः । ताभ्यां मनुशतरूपाभ्यां ब्रह्मण आदेशेन मैथुनधर्मेण प्रजासर्गे प्रवृत्ताभ्यां भुवि मनुष्यकुलानि विवर्धयन् हे गोविन्द ! मारुतपुराधिप ! त्वं मम रोगान् रुन्धि वारयेत्यर्थः ॥ १० ॥

इति सृष्टिभेदवर्णनं दशमं दशकम् ।


क्रमेण सर्गे परिवर्धमाने कदापि दिव्याः सनकादयस्ते ।
भवाद्विलोकाय विकुण्ठलोकं प्रपेदिरे मारुतमन्दिरेश ! ॥ १ ॥

  क्रमेणेति । दिव्या अप्राकृताः सात्त्विका इत्यर्थः । प्रपेदिरे प्रापुः ॥ १ ॥


  1. 'णे त' ख. पाठः.
  2. 'षु वि' ख. पाठः.