पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - १०]
६७
सृष्टिभेदवर्णनम् ।

 तस्येति । अथ तपश्चरणाय स्वपितरमनुज्ञाप्य रुद्रस्य तपोवन प्रवेशानन्तरं सर्गरसिकस्य कथं स्रक्ष्यामीत्येवं चिन्तयतस्तस्याङ्गाद् मरीच्यादयो दश पुत्रा अजायन्त । तत्र मरीचिर्ब्रह्मणो मनसोऽजायत, अत्रिर्नेत्राद्, अङ्गिरा मुखतः, ऋतुमुनिः करात्, पुलहो नाभेः, पुलस्त्यः कर्णतः, भृगुस्त्वचः, वसिष्ठः प्राणादू, दक्षोऽङ्गुष्ठाद्, उत्सङ्गान्नारदश्चाजायत । भवदङ्घ्रिदासः भवतः श्रीपादाब्जयोर्दासोऽहमित्यभिमन्यमान इत्यर्थः ॥ ७ ॥

धर्मादिकानभिसृजन्नथ कर्दमं च
 वाणीं विधाय विधिरङ्गजसकुलोऽभूत् ।
त्वद्बोधितैः सनकदक्षमुखैस्तनूजै-
 रुद्धोधितश्च विरराम तमो विमुञ्चन् ॥ ८ ॥

 धर्मादिकानिति । विधेर्दक्षिणात् स्तनाद् धर्मः श्रीनारायणश्च जातः, अधर्मो मृत्युश्चं पृष्ठतः, हृदयात् कामः, भ्रुवोः क्रोधः, अधराल्लोभ इत्याद्यन्वेषणीयम् । अथ कर्दमं चाभिसृजन् छायायाः कर्दमो जात इत्यर्थः । अथ विधिर्वाणीं सरस्वतीं विधाय अङ्गजसङ्कुलः कामपरवशोऽभूत् । ततः सर्वजनबुद्धिसाक्षिणा त्वया बोधितैः सनकादिभिर्दक्षादिभिक्ष्च[१] तनूजैः पुत्रैरुद्वोधितः प्रतिबोधितः तमोऽज्ञानं विमुञ्चन् विरराम निवृत्तोऽभूत् ॥ ८॥

वेदान् पुराणनिवहानपि सर्वविद्याः
 कुर्वन् निजाननगणाच्चतुराननोऽसौ ।
पुत्रेषु तेषु विनिधाय स सर्गवृद्धि-
 मप्राप्नुवंस्तव पदाम्बुजमाश्रितोऽभूत् ॥ ९ ॥

 वेदानिति । असौ चतुराननो ब्रह्मा निजाननगणात् चतुर्मुखेभ्यः वेदान् ऋगादींश्चतुरः पुराणनिवहान् सङ्क्षेपरूपान् सर्वविद्याः शिक्षाद्यङ्गानि षड् मीमांसायुपाङ्गानि चत्वारि, आयुर्वेदाघुपवेदाश्चत्वार इति चतुर्दश विद्याः । तत्र सर्ववि


  1. 'श्व पु' ख. पाठः,