इत्थं त्वदङ्घ्रियुगलं शरणं यतोऽस्य |
हाहेति । हे विभो ! हाहा कष्टं जातम् । अहं पुरस्ताद् जनसर्गात् प्रागेव पृथिवीनिवेशनाय जलं न्यपिबं पीतवानस्मि । अद्यापि तुच्छीकृते जले मही मज्जति । अहं भवता सर्गे योजितः सन्नपि किं करोमि । अस्मिन् कर्मण्यस्माकं त्वमेव शरणम् । इत्थं त्वदङ्घ्रियुगलं शरणं यतः प्राप्नुवतः अस्य ब्रह्मणः नासापुटाद् नासिकोदरतः शिशुकोलरूपी वराहतोकरूपं बिभ्रत् समभवः अवतीर्णोऽभूरित्यर्थः ॥ ३ ॥
अङ्गुष्ठमात्रव पुरुत्पतितः पुरस्ताद् |
अङ्गुष्टेति । त्वं पुरस्तात् पूर्वं नासापुटाद् अङ्गुष्ठमात्रवपुः अङ्गुष्ठ[१]मात्रपरिमितशरीरः सन् उत्पतितः । अथ अनन्तरं भूयः पुनश्च कुम्भिसदृशो गजमात्रः समजृम्भथाः ववृधिषे । तथाविधं क्षणेन वर्धिष्णुम् अभ्रे मेघमार्गे उच्चैः उन्नतमुदीक्ष्य मुखान्युन्नमय्य दृष्ट्वा विधि: ब्रह्मा विस्मेरतां विस्मितत्वम् अगात् प्राप । सह सूनुभिः स्वैरिति । सूनवो मरीच्यादयः, तेऽपि विस्मिता बभूवुरित्यर्थः ॥
कोऽसावचिन्त्यमहिमा किटिरुत्थितो मे |
कोऽसाविति । अचिन्त्यमहिमा अपरिच्छेद्यशरीरमहत्त्वः अप्रमेयप्रभावो वा किटि: सूकरो मे घोणापुटाद् नासापुटाद् उत्थित उत्पन्नः | अजितस्य विष्णोर्माया किमु भवेत् स एव मायया सूकरमूर्तिरवतीर्णः किमु भवेत् । धातरि इत्थं