विचिन्तयति सति सद्यः शैलमात्रः शैलद्वयसवपुर्भवन् त्वं घोरघोरम् अतिशयेन भयङ्करं यथा भवति तथा जगर्जिथ किल ॥ ५ ॥
तं ते निनादमुपकर्ण्य जनस्तपःस्था: |
तमिति । ते तव तं निनादं गर्जितं जनस्तपःस्थाः जनस्तपोलोकस्था अपीत्यर्थः । सत्यस्थिताः सत्यलोकस्था नुनुवुः तुष्टुवुः । तत्स्तोत्रेण तेन स्तोत्रेण हर्षुलमनाः प्रसन्नचेताः सन् विपुलमूर्तिः पूर्वस्मादतिविस्तृतकायः सन् त्वं भूयः पुनरपि तेषां प्रसादाय परिणद्य गर्जन् तोयाशयं प्रलयाब्धिमवातरः अवगाहसे स्म ॥
ऊर्ध्वप्रसारिपरिधूम्रविधूतरोमा |
ऊर्ध्वेति । ऊर्ध्वं प्रसरणशीलानि परिधूम्राणि कृष्णलोहितानि विधूतानि कम्पितानि रोमाणि यस्य, स तथा । उत्क्षिप्तवालधि: उन्नीतपुच्छः अवाङ्मुखा अधःकृता घोरा भयङ्करा[१]कारा घोणा नासिका यस्य, स तथा । तूर्णम् अतिलघु प्रदीर्णाः शकलीकृता जलदा येन । परिघूर्णता अक्ष्णा कम्पितपिङ्गलितोच्छ्रनाक्षिद्वयेन प्रकटितानुकम्पेन स्तोतॄन् मुनीन् शिशिरयन् आनन्दयन् त्वमवतेरिथ अवजगाहिषे ॥ ७ ॥
अन्तर्जलं तदनु सङ्कुलनक्रचक्रं |
- ↑ 'रा घो' क. पाठः.