पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
दशकम् - ४]
३३
योगसिद्धिवर्णनम् ।

र्मङ्क्षु झटिति मो[१]क्षरसिकः सद्योमुक्त्याग्रही भ[२]वति । क्रमेण वेति यस्तु क्रममुक्त्याग्रही वा[३] भवतीत्यर्थः । द्विविधोऽपि सः योगवश्यं प्राणायामवशीकृतम् अनिलं प्राणवायुं षडाश्रयैः सुषुम्णया सुषुम्णानाडीद्वारेण उन्नयतीति, स्वपार्णिना गुढं संपीड्य मूलाधारनाभिहट्दुरस्तालुमूलभूमध्यरूपैः पड्भिराश्रयैः स्थानैः शनैः क्रमादधिरोपयतीत्यर्थः ॥९॥

 एतदन्तमुभयोरपि समानं, पुनर्निराग्रहस्य विशेषमाह -

लिङ्गदेहमपि सन्त्यजन्नथो लीयते त्वयि परे निराग्रहः ।
ऊर्ध्वलोककुतुकी तु सूर्धतः सार्धमेव करणैर्निरीयते ॥ १० ॥

 लिङ्गेति [४] निराग्रहः सद्योमुक्त्या [५]ग्रही अथो अनिलं[६] भ्रूमध्य[७]मधिरोप्य मुहूतीर्घं स्थित्वानन्तरं लिङ्गदेहमपि सन्त्यजन् स्थूलशरीरं सूक्ष्मशरीरं च सम्यगपुनरावृत्तये त्यज [८]न् त्वयि परे ब्रह्मात्मके लीयते मूर्धनि विभिद्य । यथा ज्योतिज्योतिषि लीयते, तथा त्वत्सायुज्यं प्राप्नोतीत्यर्थः । अन्यस्य विशेषमाह - ऊर्ध्वलोककुतुकी तु ब्रह्मादिलोकानु[९]भवकौतुकवांश्चेद् भवति, तर्हि मूर्धतः मूर्धनि[१०] निर्भिद्य तद्वारेण करणैरिन्द्रियैः सार्धमेव पञ्चप्राणमनोबुद्धिदशेन्द्रिय[११]समुदायात्मकलिङ्गशरीरेण सह निरीयते* निर्गच्छति । अयमाशयः - ब्रह्मरन्ध्रान्तःस्थितायाः सुषुम्णानाड्या: सूर्यरश्मीनां च नित्यसम्बन्धोऽस्ति । अतो जीवस्तद्वारा ब्रह्मरन्ध्रान्तमागत्य निर्यद्भिः सूर्यरश्मिभिः सह बहिर्निर्गच्छतीति ॥ १० ॥

 अनन्तरमग्न्याद्यातिवाहिकदेवतातिक्रमणप्रकारमाह ---

अग्निवासरवलर्क्षपक्षगैरुत्तरायणजुपा च दैवतैः ।
प्रापितो रविपदं भवत्परो मोदवान ध्रुवपदान्तमीयते ॥ ११ ॥


  • निरीयते 'ईङ् गतौ' दिवादिः ।

  1. 'क्षे' ख. पाठ:.
  2. 'स्यात् ।' ख. पाठ:
  3. 'स्यादित्य' ख. पाठः.
  4. 'ति । 'लिङ्गदेहमपि सन्त्यजन् नि' ख. पाठ:.
  5. 'क्तिमिच्छु: अ' ख. पाठः
  6. 'लस्य भ्रू' ख. पाठ:
  7. 'ध्याधिरोपणानन्तरं स्थू' ख. पाठ:.
  8. 'क्त्वा त्व' क. पाठः, 'जन् परे परब्रह्मात्मके त्वयि ली' ख. पाठः
  9. 'वलोकनकौ' ख. पाठः
  10. 'र्धानं भित्त्वा त' ख. पाठः
  11. 'यात्मलि' क. पाठः.