पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४
[स्कन्धः - २
नारायणीये

 अग्निवासरेति । वलर्क्षपक्षः शुक्लपक्ष। अग्निं[१] वासरं वलर्क्षपक्षं च गच्छन्ति अधिष्ठा[२]तृत्वेन प्राप्नुवन्तीति तथा उत्तरायणजुषा उत्तरायण[३]षण्मासान् जुषते अधितिष्ठतीति तथा । अग्न्याद्यभिमानिभिर्दै[४]वतैरित्यर्थः । एतैर्देवतैः रविपदं ज्योतिश्चक्रं प्रापितो जीवः भवत्परः भवानीश्वर एव पर: सेव्यतया प्रधानो यस्य स तथा । मोदवान् तत्तद्देवतातुल्यभोगानुभवेन सन्तोषातिशयवान् भूत्वा ध्रुवपदान्तं ध्रुवलोकावधि ईयते प्राप्नोति । अत्र चेयं प्रक्रिया [५] –अग्न्यादिदेवता ह्येनं जीवमञ्जलिगतपुत्रिकावत् क्रमाद् ब्रह्मलोकं प्रापयन्ति । तत्र प्रथममग्निदेवता स्वेच्छया शरीरमुत्सृज्य सूर्यरश्मिद्वारा निर्गच्छन्तं जीवमग्निलोकमार्गेण नीत्वा [६]वासराभिमानिदेवताहस्तं प्रापयति । सा शुक्लपक्षाभिमानिदेवताहस्तं प्रापयति । सा चोत्तरायणषण्मासाभिमानिदेवताहस्तं प्रापयति । सा संवत्सराभिमानिदेवताहस्तं प्रापयति । सा पुनर्देवलोकमार्गेण नीत्वा वायुदेवताहस्तं प्रापयति । सा च स्वलोकमार्गेणादित्यदेवताहस्तं नयति । सा च स्वमण्डलद्वारा गच्छन्तं जीवं स्वलोकमार्गेण नीत्वा चन्द्रदेवता[७]हस्तं नयति । सा[८] स्वलोकमार्गेण विद्युल्लोकं प्रो[९]पयति । ततश्च ध्रुवलोकान्तं गच्छतीति ॥ ११ ॥

आस्थितोऽथ महरालये यदा शेषवऋदहनोष्मणार्द्यते ।
ईयते भवदुपाश्रयस्तदा वेधसः पदमतः पुरैव वा ॥ १२ ॥

 आस्थित इति । अथ ध्रुवपदप्राप्त्यनन्तरं महरालये[१०] कल्पायुषां भृग्वादीनामालयभूते महर्लोके आस्थितः[११] सुखेन वसन् यदा[१२] यस्मिन् काले शेषवक्रदहनोष्मणा अनन्तस्य मुखात् त्रैलोक्यदाहाय निर्गतोऽग्निरूर्ध्वशिखो वर्धते, तेन च त्रैलोक्यं दह्यमानं निरीक्ष्य तस्योप्मणा चार्घते पीड्यते, तदा भवदुपाश्रयो भवन्तमीश्वरमेव शरणं ग [१३]तो वेधसः पदं सत्यलोकाख्यम् ईयते प्राप्नोति । भृग्वादिभिः सह जनर्लोकं तपो.</ref> १४. [१४]लोकं चातीत्य ब्रह्मसभां प्रविशतीत्यर्थः । अतः पुरैव वेति


  1. 'ग्निवासरवलर्क्षपक्षान् ग' क. पाठ:.
  2. 'नतया प्रा' क. पाठ:.
  3. ‘णं जु' ख. पाठः.
  4. 'दे' क ख. पाठ:.
  5. 'या ज्ञेया अ' ख. पाठ:.
  6. 'अहरभि' क. पाठ:.
  7. 'तां सन्निधाप' क. पाठ:.
  8. 'चन्द्रदेवता च स्व' क. पाठ:.
  9. 'नय' क. पाठः.
  10. 'ये मह' क. पाठ:.
  11. 'तस्तत्र सुखेन निव' क. पाठः .
  12. 'दा शे' क. पाठः.
  13. 'प्राप्तः सन् वे' क. पाठ:
  14. 'गत्वा तदुपर्यपि क्रमेण गच्छतीत्यर्थः ।’ क, पाठः.