अग्निवासरेति । वलर्क्षपक्षः शुक्लपक्ष। अग्निं[१] वासरं वलर्क्षपक्षं च गच्छन्ति अधिष्ठा[२]तृत्वेन प्राप्नुवन्तीति तथा उत्तरायणजुषा उत्तरायण[३]षण्मासान् जुषते अधितिष्ठतीति तथा । अग्न्याद्यभिमानिभिर्दै[४]वतैरित्यर्थः । एतैर्देवतैः रविपदं ज्योतिश्चक्रं प्रापितो जीवः भवत्परः भवानीश्वर एव पर: सेव्यतया प्रधानो यस्य स तथा । मोदवान् तत्तद्देवतातुल्यभोगानुभवेन सन्तोषातिशयवान् भूत्वा ध्रुवपदान्तं ध्रुवलोकावधि ईयते प्राप्नोति । अत्र चेयं प्रक्रिया [५] –अग्न्यादिदेवता ह्येनं जीवमञ्जलिगतपुत्रिकावत् क्रमाद् ब्रह्मलोकं प्रापयन्ति । तत्र प्रथममग्निदेवता स्वेच्छया शरीरमुत्सृज्य सूर्यरश्मिद्वारा निर्गच्छन्तं जीवमग्निलोकमार्गेण नीत्वा [६]वासराभिमानिदेवताहस्तं प्रापयति । सा शुक्लपक्षाभिमानिदेवताहस्तं प्रापयति । सा चोत्तरायणषण्मासाभिमानिदेवताहस्तं प्रापयति । सा संवत्सराभिमानिदेवताहस्तं प्रापयति । सा पुनर्देवलोकमार्गेण नीत्वा वायुदेवताहस्तं प्रापयति । सा च स्वलोकमार्गेणादित्यदेवताहस्तं नयति । सा च स्वमण्डलद्वारा गच्छन्तं जीवं स्वलोकमार्गेण नीत्वा चन्द्रदेवता[७]हस्तं नयति । सा[८] स्वलोकमार्गेण विद्युल्लोकं प्रो[९]पयति । ततश्च ध्रुवलोकान्तं गच्छतीति ॥ ११ ॥
आस्थितोऽथ महरालये यदा शेषवऋदहनोष्मणार्द्यते । |
आस्थित इति । अथ ध्रुवपदप्राप्त्यनन्तरं महरालये[१०] कल्पायुषां भृग्वादीनामालयभूते महर्लोके आस्थितः[११] सुखेन वसन् यदा[१२] यस्मिन् काले शेषवक्रदहनोष्मणा अनन्तस्य मुखात् त्रैलोक्यदाहाय निर्गतोऽग्निरूर्ध्वशिखो वर्धते, तेन च त्रैलोक्यं दह्यमानं निरीक्ष्य तस्योप्मणा चार्घते पीड्यते, तदा भवदुपाश्रयो भवन्तमीश्वरमेव शरणं ग [१३]तो वेधसः पदं सत्यलोकाख्यम् ईयते प्राप्नोति । भृग्वादिभिः सह जनर्लोकं तपो.</ref> १४. [१४]लोकं चातीत्य ब्रह्मसभां प्रविशतीत्यर्थः । अतः पुरैव वेति
- ↑ 'ग्निवासरवलर्क्षपक्षान् ग' क. पाठ:.
- ↑ 'नतया प्रा' क. पाठ:.
- ↑ ‘णं जु' ख. पाठः.
- ↑ 'दे' क ख. पाठ:.
- ↑ 'या ज्ञेया अ' ख. पाठ:.
- ↑ 'अहरभि' क. पाठ:.
- ↑ 'तां सन्निधाप' क. पाठ:.
- ↑ 'चन्द्रदेवता च स्व' क. पाठ:.
- ↑ 'नय' क. पाठः.
- ↑ 'ये मह' क. पाठ:.
- ↑ 'तस्तत्र सुखेन निव' क. पाठः .
- ↑ 'दा शे' क. पाठः.
- ↑ 'प्राप्तः सन् वे' क. पाठ:
- ↑ 'गत्वा तदुपर्यपि क्रमेण गच्छतीत्यर्थः ।’ क, पाठः.