एतैर्दोषैः परिच्युतौ सत्यां पुनरपि धारणादिकमारब्धव्यम् । यदा तु चित्तमेतैर्दोषैर्विरहिततयाचलं ब्रह्ममात्रमवतिष्ठते, तदा निर्विकल्पकसमाधिरित्युच्यते 'यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता' (गी. अ. ६. क्ष्लो. १९) इति भगवद्वचनादिति ॥ ७ ॥
अथ समाधिविजये जीवन्मुक्तताप्राप्तिमाह -
इत्थमभ्यसननिर्भरोल्लसत्त्वत्परात्ममुखकल्पितोत्सवाः । |
इत्थमिति । इत्थम् [१] उक्तप्रकारेण धारणाध्यानसमाधीनामभ्यसनेन निर्भरम् अतिशयेन उल्लसता आविर्भूतेन त्वत्परात्मसुखेन त्वत्स्वरूपपरब्रह्मानुभवजनितेनानन्देन कल्पितो निर्वृत्त उत्सवो येषां तथाभूताः सन्तो वयं मुक्तानां भक्तानां च कुलानि समूहाः, तेषां मौलितां प्रधानतां गताः[२] प्राप्ताः सन्त इति । अयं भावः --- यद्यपि ब्रह्मणि साक्षात्कृते सति अज्ञानतत्कार्यपूर्वसञ्चितकर्मसंशयविपर्ययादीनां बाघितत्वादखिलबन्धरहिता ब्रह्मनिष्ठा भवन्ति, तथापि यावत् प्रारब्धकर्म परिसमाप्यते, तावत् पूर्ववासनया क्रियमाणानि कर्माणि भुज्यमानानि च । यथेन्द्रजालमिदमिति ज्ञानवन्तस्तदिन्द्रजालं पश्यन्तोऽपि परमार्थतो न पश्यन्ति, तद्वदेतेऽपि लोकव्यवहारं ब्रह्मज्ञानबाघितत्वादपरमार्थतया पश्यन्तः कञ्चित् कालं सञ्चरन्ति । सेह[३] जीवन्मुक्तावस्थोच्यत इति तादृशावस्थापन्नाः शुकनारदादयः । हे भगवन् ! वयमपि यदि भवत्कृपाभाजनं भवेम, तर्हि तादृशाः सन्तः सञ्चरेमेत्यर्थः ॥ ८॥
ननु ब्रह्मज्ञानानन्तरं प्रारब्धकर्मावसाने मुक्तिरित्युक्तम् । तदनुपपन्नं, श्रीनारदादीनां प्रारब्धकर्मना[४]शाद् देहपातेऽसत्यपि देहान्तरप्राप्तिश्रवणादित्याशङ्कय विजितसमाधीनां तादृशां यथेष्टां गतिमाह[५] सप्तभिः-
त्वत्समाधिविजये तु यः पुनर्मङ्क्षु मोक्षरसिकः क्रमेण वा । |
त्वदिति । हे अज! त्वयीश्वरे समाधिश्चित्तैकाग्रचं त्वत्समाधिः, तस्य विजयो निवातस्थि[६]तदीपवदनायासेन दीर्घकालमवस्थानं, तस्मिन् सति यस्तु पुन-