अ. ६. क्ष्लो. ३४) इति यथा श्रीनारदवचनं, तथेत्यर्थः । एवञ्च[१] वयं ध्यानयोगे ध्यानरूपे त्वत्प्राप्त्युपाये निरतास्तत्प[२]रास्त्वदाश्रयास्त्वद्भक्ता भवेमेति शेषः ॥ ५॥
अथ समा[३]धिमाशास्ते -----
ध्यायतां सकलमूर्तिमीदृशीमुन्मिपन्मधुरताहृतात्मनाम् । |
ध्यायतामिति । अयि भगवन् ! ते तव ईदृशीं सकलमूर्तिं ध्यायताम् उन्मिषन्त्या अभिव्यक्तया मधुरतया तव वपुस्सौभाग्येन हृत आत्मा मनो येषां ते[४] उन्मिषन्मधुरताहृतात्मानः, तेषां सान्द्रमोदरसरूपं सान्द्रानन्दैकरसस्वरूपं ते रूपं स्वरूपभूतं ब्रह्म आन्तरम्[५] अन्तरिन्द्रियग्रा[६]ह्यं ज्ञातृज्ञानज्ञे[७]यरूपेण भेदेनाभेदेन चावभासते। अनेन सविकल्पकसमाधिरुक्तः । तत्र चै[८]वमेव भानप्रकार: । तदुक्तमाचार्येण 'तदा मृण्मयगजादिभानेऽपि मृद्भानवद् द्वैतभानेऽप्यद्वितीयं वस्तु भासत' इति ॥ ६ ॥
[९]अंथ निर्विकल्पकसमाधेः स्वरूपं दर्शयति -
तत्समास्वदनरूपिणीं स्थितिं त्वत्समाधिमयि विश्वनायक ! । |
तदिति । तस्य तादृशस्य ब्रह्मणः समास्वदनं सम्यगनुभवः, तद्रूपिणीं स्थितिं ज्ञातृज्ञेययोरपि ज्ञानरूपेणावस्थानं त्वत्समाधिं त्वद्विषयं निर्विकल्पकसमाधिमित्यर्थः । अत्र चायमेव भानप्रका[१०]र: । तदुक्तं 'तदा जलाकाराकारितलवणानवभा[११]सेन जलमात्रावभासवदद्वितीयवस्तुमात्रमवभासत' इति । हे विश्वनायक! जगन्नाथ ! तादृशं त्वत्समाधिमाश्रिता वयं पुनरतोऽस्मात् स्थानात् परिच्युतौ सत्यां भ्रंशे सति धारणादिकं पुन[१२]श्चारभेमहीति । अयमाशयः- निर्विकल्पकसमाधेर्लयविक्षेपकषायरसास्वादरूपाश्चत्वारो विघ्नाः संभवन्ति । तत्र लयो निद्रा | विक्षेपोऽन्यावलम्बनम् । कषायो विषयवासनया स्तब्ध[१३]भाव: । रसास्वादः सविकल्पकानन्दास्वादनम् ।
- ↑ 'ञ्चेद् व क. पाठ:.
- ↑ 'राः सन्तस्त्व' क. पाठ:.
- ↑ 'धिं दर्शयति' क. पाठ:.
- ↑ 'तादृशानां सा' ख. पाठः.
- ↑ 'मिति अ' क. पाठ:.
- ↑ 'ह्यतया ज्ञा' क. पाठः.
- ↑ 'यभेदेन च भासत इत्यर्थः । अनेन च स' क. पाठ:.
- ↑ 'वं भानप्रकार आचार्येणोक्त्त:--तदा' ख. पाठः.
- ↑ 'निर्वि' क. पाठ:.
- ↑ 'र उक्तः तदा' ख. पाठः.
- ↑ 'से ज' क. पाठ:.
- ↑ 'नरप्यार' क. पाठः.
- ↑ 'ब्धी' क. पाठः.