मभियम्य पूरकरेचककुम्भकैः वायु[१]जयं कृत्वा निर्गतानि मलानि रागादीनि येभ्यस्ते[२] निर्मलाः । तदुक्तं ‘प्राणायामैर्दहेद् दोषान् धारणाभिश्च किल्बिषान्' (श्रीभा. रक. ३. अ. २८. क्ष्लो. ११) इति । अथ अनन्तरम् इन्द्रियाणि विषयादपह्टत्येति प्रत्याहार[३] उक्तः । भवदुपासने धारणाघुत्तरभूमिकायाम् उन्मुखा आरुरुक्षवः सन्तः आस्महे पूर्वभूमिकामेवाभ्यस्यतो भवत्कृपां प्रतिपालयाम इत्यर्थः ॥ ३ ॥
क्रमप्राप्तां धारणामाह -----
अस्फुटे वपुषि ते प्रयत्नतो धारयेम धिषणां मुहुर्मुहुः । |
अस्फुटेति । अस्फुटे अस्पष्टे आपाततः प्रतीते ते तव वपुषि प्रयत्नतो मुहुर्मुहुर्धिषणां बुद्धिं धारयेम । अत्र बुद्धेर्निद्रादोषे सति तदुद्धोधने प्रयासः प्रयत्नः । तथान्यविषया[४]लम्बने सति तच्छमनं कर्तव्यमिति मुहुर्मुहु[५]रित्युक्तम् । एवं धारणां क[६]लयाम इति यत् तेन धारणा[७]कलनेन भक्तिरेव रसः तं तदनुभावमन्तरार्द्रतां चोद्वहेम प्राप्नुयाम । ततो वयं भवदङ्घ्रिचिन्तकाः परमभागवता[८]श्च भवेमेति ॥ ४ ॥
ध्यानमाह -
विस्फुटावयवभेदसुन्दरं त्वद्वपुः सुचिरशीलनावशात् । |
विस्फुटेति । बिस्फुटा विशेषे[९]ण स्पष्टाः श्रीमत्पादादिकेशान्ता अवयवभेदा यस्मिंस्तद् विस्फुटावयवभेदं[१०] तादृशं सुन्दरं स्फुटप्रतीयमानसौन्दर्ये च[११] त्वद्वपुः सुचिरशीलना दीर्घकालं धारणाध्यानयोरभ्यासः तद्वशाद् अश्रमम् अनायासेन मनसि चिन्तयामहे । ‘आहूत इव मे शीघ्रं दर्शनं याति चेतसि' (श्रीभा. स्क. १.