पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
अथ द्वितीयस्कन्धपरिच्छेदः ।


त्रिगुणं द्विगुणं शुद्धसत्त्वैकगुणनिर्गुणम् ।
द्वितीयोक्तं हरे रूपमुपास्यमुपवर्ण्यते ॥

 अथ द्वितीयस्कन्धाश्रयणेन भगवन्मूर्तिभेदतदुपासनतत्फलादि प्रपञ्चयिष्यन् प्रथमं स्वस्य तस्मिन्नधिकारायारोग्यं प्रार्थयते-

कल्यतां मम कुरुष्व तावतीं कल्यते भवदुपासनं यया ।
स्पष्टमष्टविधयोगंचर्यया पुष्टयाशु तव तुष्टिमाप्नुयाम् ॥ १ ॥

 कल्यतामिति । मम तावतीं कल्यताम् आरोग्यं कुरुष्व, यया यावत्या कल्यतया भवदुपासनं कल्यते अनुष्ठातुं शक्यते । स्पष्टम् इदं निश्चितम् । यद्यहमरोगः स्यां, तर्हि आश्वष्टविधस्य यमनियमाद्यष्टाङ्गस्य योगस्य चर्यया अनुष्ठानेन पुष्टया सम्पूर्णाङ्गया । सम्प्रति मदकल्यतैव योगाङ्गवैकल्ये कारणमिति भावः । तव तुष्टिं प्रसादम् आप्नुयाम् लभेय[१] ॥ १ ॥

 इदानीं यथाशक्ति करोमीत्याह-

ब्रह्मचर्यदृढतादिभिर्यमैराप्लवादिनियमैश्च पाविताः ।
कुर्महे दृढममी सुखासनं पङ्कजाद्यमपि वा भवत्पराः ॥ २ ॥

 ब्रह्मचर्येति । ब्रह्मचर्यस्य दृढता नाम स्त्रीणां दर्शन[२]स्पर्शनादिवर्जनम् । आदिशब्देनाहिंसासत्यास्तेयादि गृह्यते । आप्लवः स्नानम् । अत्रादिशब्देन मनः- शुद्धिजपतपोहोमादि गृह्यते । एतैर्यमैर्नियमैश्च पाविताः शुद्धाः सन्तः[३] भवान् परः प्रधानो येषां ते भवत्पराः अमी वयं पङ्कजमाद्यं प्राथमिकं यस्य तत् पङ्कजाद्यं पद्मासनं स्वस्तिकासनमन्यद् वा सुखासनं यथासुखमासनं[४] दृढं कुर्महे ॥ २ ॥

 आसनदाढर्ये सति प्राणायामं कुर्म इत्याह-

तारमन्तरनुचिन्त्य सन्ततं प्राणवायुमभियम्य निर्मलाः ।
इन्द्रियाणि विषयादथापहृत्यास्महे भवदुपासनोन्मुखाः ॥ ३ ॥

 तारमिति । तारं प्रणवम् अन्तः हृदि सन्ततं तैलधारावद् घण्टानादवच्चा- विच्छिन्नमनुचिन्त्य विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहं कृत्वा प्राणवायु-


  1. 'येति ॥' क. पाठः,
  2. नादि' ख. पाठः,
  3. 'न्तः भवत्पराः भ' ख. पाठः
  4. 'नं कु' क. पाठ:.