पृष्ठम्:नारायणीयम् (भक्तप्रियव्याख्यासहितम्).djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६८
[स्कन्धः- १२
नारायणीये


नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं
 देव! श्रेयांसि विद्वान् प्रतिमुहुरपि ते नाम शंसामि विष्णो ! ।
तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या-
 प्यूर्ध्वे विभ्राजमाने विरचितवसतिं तत्र वैकुण्ठलोके ॥५॥

 नो जात इीत । हे देव! जातो जायमानश्च यः पुरुषः, स कोऽपि त्वन्महिम्नोऽवसानं नाधिगतः न प्राप्तः । अतोऽहं श्रेयांसि विद्वान् इदेमव श्रेय इति निश्चित्य प्रतिमुहुः अनिशं ते नाम शंसामि सङ्कीर्तयामि । हे विष्णो ! तमपरिच्छिन्नमहिमानं त्वां नानाविधस्तुतिवचनैः संस्तौमि । निर्गुणे मनोनवगाहात् सगुणं त्वां स्तौमीत्यर्थः । अस्य लोकत्रयस्य ब्रह्माण्डस्योर्ध्वे विभ्राजमाने तत्र वेकुण्ठलोके विरचिता वसतिर्वासो यस्य ॥ ५ ॥

 अथ श्रीनारायणरूपं स्तौति-

आपः सृष्ट्यादिजन्याः प्रथममयि विभो! गर्भदेशे दधुस्त्वां
 यत्र त्वय्येव जीवा जलशयन ! हरे ! सङ्गता ऐक्यमापन् ।
तस्याजस्य प्रभो ! ते विनिहितमभवत् पद्ममेकं हि नाभौ
 दिक्पत्रं यत् किलाहुः कनकधरणिभृत्कर्णिकं लोकरूपम् ॥ ६ ॥

 आप इति । सृष्ट्यादिजन्या: 'अप एव ससर्जादौ' (मनु. १. ९ ) इति वचनाद् आपः प्रथममादौ त्वां गर्भदेशे दधुः । यत्र अपां मध्येऽवस्थिते त्वय्येव जीवाः सङ्गताः प्राप्ताः ऐक्यमापन् अनुशयिता अभवन् । कल्पान्ते सर्वजीवा ब्रह्मणा सह जलशायिनि श्रीनारायणे सङ्गता अनुशेरते । तस्य जलशयनस्य अजस्य विष्णोस्ते नाभौ विनिहितमधिष्ठितमेकं पद्ममभवत् । यत् पद्मं लोकरूपमाहुः । तदेवाह — दिश: पत्राणि दलांनि यस्य, कनकधरणिभृद् महामेरुः कर्णिका तत् । श्रीविष्णुरेव कमलजः सन् नाभिकमलेन भुवनमजनयदित्यर्थः ॥ ६ ॥

 उक्तरूपं विष्णुमजानतः शोचन्नाह -

हे लोका विष्णुरेतद् भुवनमंजनयत् तन्न जानीथ यूयं
 युष्माकं ह्यन्तरस्थं किमपि तदपरं विद्यते विष्णुरूपम् ।
नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः
 माणप्रीत्यैकतृप्ताश्वरथ मखपरा हन्त नेच्छा मुकुन्दे ॥७॥