जानन्तश्चास्य नामान्यखिलसुखकराणीति सङ्कीर्तयध्वं |
हे स्तोतार इति । इह ये कवीन्द्राः काव्यकुशलाः अत एव स्तोतारो राजादिवर्णनपराः, ते खलु यूयं यथा चेतयध्वे अवगच्छथ, तथैव जननैरवतारैः उपात्ताभिरङ्गीकृताभिः लीलाभिः तं विष्णुं प्रणुवत स्तुतिं कुरुत | व्यक्तं प्रमाणसिद्धं वेदस्य सारं प्रधानप्रतिपाद्यम् । हे जानन्तः ! परमार्थज्ञाः! अस्य विष्णोर्नामान्यखिलसुखकराणि मोक्षप्रदानीत्यतः सङ्कीर्तयध्वम् । हे विष्णो! महतस्तव कीर्तनाद्यै: खलुं तत्त्वबोधं तत्त्वज्ञानं भजेयम् ॥ ३ ॥ ।
किञ्च,
विष्णोः कर्माणि सम्पश्यत मनसि सदा यैः स धर्मानबध्नाद् |
विष्णोरिति । यूयं विष्णोः कर्माणि[१] चरितानि मनसि सदा संपश्यत चिन्तयत । स विष्णुः यैः दुष्टनिग्रहविद्यास्थापनलोकसंग्रहणरूपैः कर्मभिः धर्मान् अभ्युदयनिः- श्रेयसार्थान् अबघ्नात् तत्तदधिकारिभिः संयोजयामास, तानि कर्माणि संपश्यतेत्यर्थः । एष विष्णुरिन्द्रस्य त्रैलोक्यरक्षायामात्मनाधिकृतस्य भृत्य इव, इन्द्रकर्तृकस्य जगद्रक्षणस्य तदशक्ते: स्वयं करणात् । अत एव महतोपकारेणास्य प्रियसख इव च भगवान् यानि कर्माणि व्यातनोत् चकार । क्षेमकारी एवं जगद्रक्षणशील इत्यर्थः। किञ्च, योगसिद्धाः समाधिनिर्जितसमग्रैश्वर्यादिगुणा मुनयो यस्य परपदं मायासम्बन्धरहितं प्राप्तिस्थानमनिशं वीक्षन्ते पश्यन्ति । सम्यक् प्रकाशं यस्मात् सर्वस्येति परपदं विशेष्यते । यत् परपदं विमेन्द्रा जागरूकास्तात्पर्यवन्तः कृतबहुनुतयः सगुणनिर्गुणभेदेन स्तुतिं कुर्वन्तो निर्भासयन्ते प्रकाशयन्ति ॥ 8 ॥
- ↑ णि म' ख. पाठः.